SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ श्रीशारीरकमीमांसाभाये म.. रहिततुल्यमेव जीववच्छरीरित्वनिबन्धनं कर्मवश्यत्वमस्य न विद्यत :त्यर्थः । कुतः निर्वाहकत्वेन प्रधानत्वात् । १"आकाशो हवै नामरूपयोनिर्वहिता ते यदन्तरा तद्ब्रह्म"इति सर्वानुमवेशेऽपि नामरूपकार्यास्पर्शन नामरूपयोर्निर्वोदृत्वमेव ब्रह्मणः प्रतिपादयतिाननु-तच्छरीरकत्वेन तदन्तर्यामित्वे कथमरूपवदिति रूपसम्बन्धरहिततुल्यत्वमुच्यते इत्थं-यथा जीवस्य तत्तजन्यसुखदुःखभाक्त्वेन तत्तद्रपसम्बन्धः,तथा तदभावात्परस्यारूपवत्त्वम्।विधिनिषेधशास्त्राण्यपि कर्मवश्यमेवाधिकुर्वन्ति तस्मादरूपतुल्यमेव परं ब्रह्म । ततश्चान्तर्यामिरूपेणावस्थितमपि ब्रह्म निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वरूपोभयलिङ्गमेव ॥ १४ ॥ ___ननु च २" सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादिभिर्निर्विशेषप्रकाशैकखरूपं ब्रह्मावगम्यते ,अन्यत्तु सर्वज्ञत्वसत्यसङ्कल्पत्वजगत्कारणत्वसवान्तरात्मत्वसत्यकामत्वादिकं ३ 'नेतिनेति" इत्यादिभिः प्रतिषिध्यमानत्वेन मिथ्याभूतमित्यवगन्तव्यम् । तत्कथं कल्याणगुणाकरत्वनिरस्तनिखिलदोषत्वरूपोभयलिङ्गत्वं ब्रह्मण इति; अत आह प्रकाशवच्चावैयर्थ्यात्।३।२।१५॥ यथा २"सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादिवाक्यावयापकाशखरूपत्वं ब्रह्मणोऽभ्युपगम्यते ; तथा सत्यसङ्कल्पत्वसर्वज्ञत्वजगत्कारणत्वसर्वात्मकत्वनिरस्तनिखिलाविद्यादिदोषत्वाद्यभिधायिवाक्यावैया दुभयलिङ्गमेव ब्रह्म ॥ १५ ॥ आह च तन्मात्रम्॥ ३॥ २॥ १६॥ किश्च २" सत्यं ज्ञानमनन्तम्" इत्यादिवाक्यं ब्रह्मणः प्रकाशस्त्ररूपतामात्र प्रतिपादयति, नान्यत्सत्यसङ्कल्पत्वादिकं वाक्यान्तरावगतं निषेधति; ३“नेतिनेति" इति च निषेधविषयोऽनन्तरमेव वक्ष्यते ॥ १. छा. ८.१४-१॥-२. ते. भान, १-१॥-३... ४-३-६॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy