________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२ वेदान्तमारे
[म. ३, पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति" इत्यादेश्च । खमाध्यायविदश्च खमं शुभाशुभयोस्सूचकमाचक्षते । सूचकत्वं च स्वसङ्कल्पायत्तस्य नोपपद्यते; तथाचाशुभस्यानिष्टत्वाच्छुभस्य सूचकमेव सृष्ट्वा पश्येत् । अतः स्वमे सृष्टिरीश्वरेणैव कृता ॥ ६॥
इति श्रीशारीरकमीमांसाभाप्ये सन्ध्याधिकरणम् ॥ १ ॥
वेदान्तसारे—सन्ध्ये सृष्टिराह हि ॥ सन्ध्ये-स्वप्ने १ अथ रथान् रथयोगान्" इत्यादिना अभिहिता सृष्टिर्जीवकृता; १ "पुष्करिण्यस्स्रवन्स्यस्सजते स हि कर्ता” इति स्वप्नदृशं जीवमेव कर्तारम् आह श्रुतिः ॥ १॥
निर्मातारं चैके पुत्रादयश्च ॥ २" य एषु सुप्तेषु जागर्ति कामकामं पुरुषो निर्मिमाणः" इति । एनं जीवं स्वानार्थनिर्मातारम् एके शाखिनोऽधीयते । अत्र कामशब्दनिर्दिष्टाः काम्यमानतया पुत्रादयः; पूर्वत्र ३ “सर्वान् कामाञ् छन्दतः" इत्युक्त्वा ४'शतायुषः पुत्रपौत्रान्" इति विवृतत्वात् ॥ २॥
मायामात्रं तु कात्स्न्नानभिव्यक्तखरूपत्वात् ।। स्वप्ने या रथादिसृष्टिः, तदिदमीश्वरकृतं मायामात्र खप्नदृशैवानुभाव्यं तत्कालमात्रावसानमित्याश्चर्यतया मायेत्युक्तम्। जीवस्य सत्यसङ्कल्पत्वादिकं स्वाभाविकं स्वरूपं संसारदशायां कात्स्न्येनानभिव्यक्तमिति न तस्य सङ्कल्पमात्रात् सृष्टिरुपपद्यते।"स हि कर्ता" १"पुरुषो निर्मिमाणः" इति न जीवविषयम्, २"तस्मिल्लोकाश्श्रितास्सर्वे" इति वचनात् ॥३॥
खाभाविकस्य अनभिव्यक्तिहेतुमाह
पराभिध्यानात्तु तिरोहितं ततो बस्य बन्धविपर्ययौ ॥जीवस्याना. धपचारप्रवाहेण पराभिध्यानादेव तिरोहितम् ; तदपचारात्तदनुवृत्तेहि अस्य बन्धविपर्ययौ, ५"अथ तस्य भयं भवति" ५“अथ सोऽभयङ्गतो भवति' इति श्रुतेः॥४॥
देहयोगाद्वा सोऽपि ॥ सोऽपि-तिरोभावः, देवमनुष्यादिदेहाकारा - चिद्योगात् सृष्टिवेलायाम् , नामरूपविभागानहसूक्ष्माकारादिद्योगात् प्रलये ॥
सचकश्च हि श्रुतेराचक्षते च तद्विदः ।। ६ “अथ स्वप्ने पुरुषं कृष्णम्" . १, इ. ६-३-१० ॥-२. करु.२-५-८॥-३.कठ. १-१-२५||-४.कठ.१-१-२३॥-- ५. ते. आन, ७-२॥ ६ ॥
For Private And Personal Use Only