________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.] सण्याधिकरणम्.
२२३ इत्यादिश्रुतेः शुभाशुभसूचकश्च हि स्वप्नः; स्वप्नविदश्चाचक्षते तत् अतो न जी. वस्स्रष्टा खामार्थानाम् ॥ ६॥
इति वेदान्तसारे सन्ध्याधिकरणम् ॥ १॥
वेदान्तदीपे-सन्ध्ये सृष्टिराह हि ॥ स्वप्नमधिकृत्य श्रूयते-- १"न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथाव्रथयोगान्पथस्सृजते" इत्यारभ्य, १ "अथ वेशान्तान्पुष्करिण्यस्स्रवन्स्यस्सृजते स हि कर्ता" इति । किं स्वाप्रानामप्यर्थानां स्रष्टा जीव एव? उत परमात्मेति संशयः । स्वप्नदृशो जीवस्य सनिधानात् १ स हि कर्ता" इति स एव परामृश्यते ; जीवस्यापि सत्यसङ्कल्पत्वं प्रजापतिवाक्योदितमिति स एव स्रष्टेति पूर्वः पक्षः । राद्धान्तस्तुजीवस्य सत्यसङ्कल्पत्वं स्वाभाविकमपि संसारदशायां परमपुरुषसङ्कल्पात्तिरोहितमिति न जीवस्य सत्यसङ्कल्पमात्रेण स्रष्टत्वमुपपद्यते । अतः परमपुरुष एव लकलेतरपुरुषानुभवाविषयान् तत्तत्पुरुषमात्रेणानुभाव्यान तत्तत्कालावसानान् खानानर्थान् सृजति। सूत्रार्थस्तु-सन्ध्ये-स्वप्ने श्रूयमाणा रथादिसृष्टिः स्वपरशा जीवेन कृता; कुतः! आह हि १“स हि कर्ता" इति तस्यैव परामर्शादित्यर्थः॥
निर्मातारं चैके पुत्रादयश्च ॥ एनमेव जीवं निर्मातारं स्वाप्नानामर्थानाम् एके शाखिनोऽधीयते २ “य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाणः" इति। अत्र कामशन्दनिर्दिष्टाः काम्यमानतया पुत्रादय एव । चशब्दोऽवधारणे । अत्र हि ३"सर्वान् कामान" इति कामशब्दन प्रस्तुतान् ४"शतायुषः पुत्रपौत्रान्वृणीष्व" इति विविनक्ति ॥२॥
मायामात्रं तु कात्स्येनानभिव्यक्तस्वरूपत्वात्।। तुशब्दात्पक्षो वि. परिवर्तते; न जीवेन सृष्टं स्वाप्नमर्थजातम् ; अपितु पारमेश्वरमायामात्रं-सकलेतरपुरुषानुभवाविषयं तदेकानुभाव्यं तत्कालावसानमाश्चर्यरूपमर्थजातमी. श्वरस्सृजतीत्यर्थः । जीवस्य स्वतः सत्यसङ्कल्पत्वादेः कृत्स्नस्य संसारदशाया. मनभिव्यक्तस्वरूपत्वात् तस्य हि सङ्कल्पमात्रेण स्रष्टत्वं नोपपद्यते। २"कामंकामं पुरुषो निर्मिमाणः” इति च परमपुरुषमेव निर्मातारमाह---२" य एषु सुप्तेषु जागर्ति' २ "तस्मिल्लोकास्थितास्सर्वे तदु नात्येति कश्चन" इत्युपक्रमोपसंहारयोः परमपुरुषासाधारणधर्मप्रतीतेः । १"स हि कर्ता" इति च तेनैकार्थ्यात् परमपुरुषमेवाह ॥३॥
१. 1. ६-३-१०॥-२. कठ. २-५-८॥-३. कठ. १-२५॥-४. कठ.१-१-२३॥
For Private And Personal Use Only