________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१
पा.)
सन्याधिकरणम्. पराभिध्यानात्तु तिरोहितं ततो ह्यस्य
बन्धविपर्ययौ।३।२।४॥ तुशब्दश्शशाव्यावृत्त्यर्थः, पराभिध्यानात् - परमपुरुषसङ्कल्पात्, अस्य जीवस्य खाभाविक रूपं तिरोहितम्। अनादिकर्मपरम्परया कृतापराधस्य यस्य स्वाभाविक कल्याणरूपं परमपुरुषस्तिरोधापयतिः ततः तत्सङ्कल्पादेव हि अस्य-जीवस्य बन्धमोक्षो श्रुतौ “यदा ह्येवैष एतस्मिअदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति यदा वैष एतस्मिन्बुदरमन्तरं कुरुते अथ तस्य भयं भवति" १"एष मेवानन्दयाति" २ "भीषाऽस्माद्वातः पवते" इत्यादिषु ॥४॥
देहयोगाहा सोऽपि । ३।२।५॥
सोऽपि तिरोभावो देहयोगद्वारेण वा भवति, सूक्ष्माचिच्छक्तियोगद्वारेण वा सृष्टिकाले देहावस्थेनाचिदस्तुना संयोगाद्भवति, प्रलयकाले नामरूपविभागानहोतिसूक्ष्माचिद्वस्तुयोगात् । अतोऽनभिव्यक्तखरूपत्वात्वमे जीवो न रथादीन् सङ्कल्पमात्रेण स्रष्टुं शक्नोति । ३"तस्मिलोकाश्रितास्सर्वे तदु नात्येति कश्चन" इति सर्वेषु सुप्तेषु जागरणं सर्वलोकाश्रयत्वमित्यादयो हि परमपुरुषस्यैव सम्भवन्ति । अतो जीवानामपाल्पकर्मानुगुणफलानुभवार्थ तावन्मानकालावसानान् तदेकानुभाव्यानर्यानुत्पादयति ॥५॥ सूचकश्च हि श्रुतेराचक्षते च तद्विदः।३ । २॥६॥
- इतश्च खामा अर्था न जीवसङ्कल्पपूर्वकाः, यतः खमोऽभ्युदयानभ्युदययोस्सूचकः श्रुतेरवगम्यते ४“यदा कर्मसु काम्येषु स्त्रियं स्वमेषु पश्यति । समृदि तत्र जानीयात्तस्मिन् स्वमनिदर्शने" इति; ५" अय स्वमे १. ते.आन. ७-२ ॥-२.ते.आन. ८.१॥-३.कठ. ५.८॥-४.छा. ५-२-९॥-५॥
For Private And Personal Use Only