________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
सत्यधिकरणम् सर्वस्य प्रभवो मत्तस्सर्वे प्रवर्तते " इति च । महाभारते १"कुतस्सृष्टमिदं सर्व जगत् स्थावरजङ्गमम् । प्रलये च कमभ्येति तन्मे ब्रूहि पितामह" इति पृष्ट आह २"नारायणो जगन्मूर्तिरनन्तात्मा सनातनः" इति । तथा ३"तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम "इति, ४"अव्यक्तं पुरुषे ब्रह्मनिष्क्रिये सम्पलीयते " इति च । आह च भगवान्पराशरः ५"विष्णोस्सकाशादुद्भतं जगत्तत्रैव च स्थितम् । स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः" इति । आह चापस्तम्बः ६"पू: प्राणिनस्सर्व एव गुहाशयस्य अहन्यमानस्य विकल्मषस्य"इत्यारभ्य "तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकस्स नित्यः" इति । यदि कपिलस्मृत्या वेदान्तवाक्यार्थव्यवस्था स्यात् , तदैतासां सर्वासां स्मृतीनामनवकाशत्वरूपो महान् दोषः प्रसज्येत। अयमर्थः-यद्यपि वेदान्तवाक्यानामतिक्रान्तप्रत्यक्षादिसकलेतरप्रमाणसम्भावनाभूमिभूतार्थप्रतिपादनपरत्वात्तदर्थवैशद्यायाल्पश्रु - तानां प्रतिपत्तॄणां तदुपबृंहणमपेक्षितम् तथापि तदर्थानुसारिणीनामाप्ततमप्रणीतानां बहीनां स्मृतीनां तदुपबृंहणाय प्रवृत्तानामनवकाशत्वं मा प्रसाङ्गीदिति श्रुतिविरुद्धार्था कपिलस्मृतिरुपेक्षणीया । उपबृंहणं च श्रतिप्रतिपनार्थविशदीकरणम्। तच्च विरुद्धार्थया स्मृत्या न शक्यते कर्तुम्। नचैतासां स्मृतीनां प्राचीनभागोदितधर्माशविशदीकरणेन सावकाशत्वम् ; परब्रह्मभूतपरमपुरुषाराधनत्वेन धान्विदधतीनामेतासामाराध्यभूतपरमपुरुषप्रतिपादनाभावे सति तदाराधनभूतधर्मप्रतिपादनासम्भवात् । तथाहि परमपुरुषाराधनरूपता सर्वेषां कर्मणां स्मयते "यतः प्रवृत्तिभूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्य सिद्धि विन्दति मानवः"
१. २-३-४ भारते. शान्तिपर्व. मोक्षधर्म. ६. आपस्तम्बधर्म. २२-ख. १-२ ॥ ८. १, १२, १३, १४॥
७. आपस्तम्बधर्म २३. ख-१-२॥ ५. वि.पु. १-१-३१ ॥
८. गी. १८-४६॥
For Private And Personal Use Only