________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये
[अ. २. दरणीयत्वम्। सत्यम्, १"औदुम्बरी स्पृष्वोद्गायेत्" इत्यादिषु स्वत एवार्यनिश्चयसम्भवात्तद्विरुद्धा स्मृतिरनादरणीयैव इहतु वेदान्तवेद्यतत्वस्य दुरवोधत्वेन परमर्षिप्रणीतस्मृतिविरोधे सत्ययमर्थ इति निश्चयायोगात् स्मृत्या श्रुतेरतत्परत्वोपपादनमविरुद्धम् । एतदुक्तं भवति-प्राचीनभागोदितनिखिलाभ्युदयसाधनभूताग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादिकर्माणि यथावदभ्युपगच्छता श्रुतिस्मृतीतिहासपुराणेषु २ "ऋषि प्रसूतं कपिलम्" इत्यादिवाक्यरातत्वेन सङ्कीर्तितेन परमर्षिणा कपिलेन परमनिःश्रेयसतसाधनावबोधित्वेनोपनिबद्धस्मृत्युपबृंहणेन विना अल्पश्रुतैर्मन्दमतिभिर्वेदान्तार्थनिश्चयायोगाद्यथाश्रुतार्थग्रहणे चाप्तपणीतायास्साङ्यस्मृतेस्सकलाया एवानवकाशप्रसङ्गाच्च स्मृतिप्रसिद्ध एवार्थों वेदान्तवेद्य इति बलादभ्युपगमनीयम्-इति । न च वाच्यं मन्वादिस्मृतीनां ब्रह्मैककारणत्ववादिनीनामेवं सत्यनवकाशत्वदोषपसङ्ग इति; धर्मप्रतिपादनद्वारा पाचीनभागोपबृंहण एव सावकाशत्वात् । अस्यास्तु कृत्स्नायास्तस्वपतिपादनपरत्वात्तथाऽनभ्युपगमे निरवकाशत्वमेव स्यात् । तदिदमाशङ्कतेस्मत्यनवकाशदोषप्रसङ्ग इति चेत्-इति ॥
--(सिद्धान्तः)--- तत्रोत्तरं-नान्यस्मृत्यनवकाशदोषप्रसङ्गात्-इति । अन्या हि मन्वादिस्मृतयो ब्रह्मैककारणतां वदन्तिः यथाऽऽह मनुः३"आसीदिदं तमो. भूतम्" इत्यारभ्य ४"ततस्वयम्भूर्भगवानव्यक्तो व्यञ्जयनिदम्। महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः" ५“सोऽभिध्याय शरीरात्स्वात्सिसूक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत्" इति । भगवद्गीतासु च ६" अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा" ७" अहं
४. मनु. १-६॥ ५. मनु. १.८॥ २.० ५.२ ॥ ३. मनु. १.५॥ ६. गी. ७.६॥ ७.गी. १०.८ ॥
For Private And Personal Use Only