________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते
श्रीशारीरकमीमांसाभाष्ये (द्वितीयाध्याये-प्रथमपादे-स्मृत्यधिकरणम् ॥ १॥)..
स्मृत्यनवकाशदोषप्रसङ्ग इतिचेन्नान्यस्मृत्यनव
काशदोषप्रसङ्गात् । २।१।१॥
प्रथमेऽध्याये प्रत्यक्षादिप्रमाणगोचरादचेतनात्तत्संसृष्टात्तद्वियुक्ताव चेतनादर्थान्तरभूतं निरस्तनिखिलाविद्यायपुरुषार्थगन्धमनन्तज्ञानानन्दैकतानमपरिमितोदारगुणसागरं निखिलजगदेककारणं सर्वान्तरात्मभूतं परं ब्रह्म वेदान्तवेद्यमित्युक्तम् ॥
__ अनन्तरमस्यार्थस्य सम्भावनीयसमस्तप्रकारदुर्धर्षणत्वप्रतिपादनाय द्वितीयोऽध्याय आरभ्यते। प्रथमं तावत्कपिलस्मृतिविरोधाद्वेदान्तानामतत्परत्वमाशङ्कय तन्निराक्रियते । कथं स्मृतिविरोधाच्छ्रुतेरन्यपर - त्वम्? उक्तं हि "विरोधे वनपेक्ष्यं स्यात्" इति श्रुतिविरुद्धायास्स्मृतेरना.
१. पूर्वमीमां १. ३. ३॥
For Private And Personal Use Only