________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसामान्ये १"ध्यायेनारायणं देवं स्नानादिषु च कर्मसु। ब्रह्मलोकमवामोति न चेहावर्तते पुनः" २ "यैस्वकर्मपरैर्नाथ नरैराराधितो भवान् । ते तरन्त्यखिलामेतां मायामात्मविमुक्तये" इति । न चैहिकामुष्मिकसांसारिकफलसाधनकर्मप्रतिपादनेनैतासां सावकाशत्वम् । यतस्तेषामपि कर्मणां परमपुरुषाराधनत्वमेव स्वरूपम् ; यथोक्तं ३“येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् । अहं हि सर्वयज्ञानां भोक्ता व प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्श्यवन्ति ते" इति तथा ४“यस्त्वमिज्यसे नित्यं सर्वदेवमयाच्युत। हव्यकन्यभुगेकस्त्वं पितृदेवस्वरूपधृक्" इति । यदुक्तम्-५"ऋषि प्रसूतं कपिलम्" इति कपिलस्याप्ततया सङ्कीर्तनात्तस्मृत्यनुसारेण वेदान्तार्थव्यवस्थापनं न्याय्यम्-इति; तदसत् , बृहस्पतेश्श्रुतिस्मृतिषु सर्वेषामतिशयितज्ञानानां निदर्शनत्वेन सङ्कीर्तनात्तत्मणीतेन लोकायतेन श्रुत्यर्थव्यवस्थापनप्रसक्तेः-इति ॥१॥
अथ स्यात् , कपिलस्य स्खयोगमहिम्ना वस्तुयाथात्म्योपलब्धेस्तत्स्मृत्यनुसारेण वेदान्तार्थो व्यवस्थापयितव्यः-इति ; अत उत्तरं पठति
इतरेषां चानुपलब्धेः । २।१।२॥
चशब्दस्तुशब्दार्थचोदिताशङ्कानिवृत्त्यर्थः । इतरेषां-मन्वादीनां बहूनां स्वयोगमहिमसाक्षात्कृतपरावरतत्त्वयाथात्म्यानां निखिलजगद्रेपजभूतस्ववाक्यतया ६" यदै किश्च मनुरवदत्तद्भेषजम्" इति श्रुतिपसिदानां कपिलदृष्टप्रकारेण तत्त्वानुपलब्धेश्श्रुतिविरुद्धा कपिलोपलब्धि१. दक्षस्मृतो.
४. वि पु-५-२०. ९७ ॥ २. वि-पु-५.३०. १६ ॥
५. श्वे-५-२ ॥ (११. अनु॥ ३. गी. ९-२३, २४ ॥
६. यजुषि-२-३. अष्ट. च ३. प्रश्न, २.
For Private And Personal Use Only