SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ वेदान्तदीपे वेदान्तदीपे-अन्याधिष्ठिते पूर्ववदभिलापात्॥ अवरोहन्तो जीवाः वाह्यादिभावेन जायन्त इति श्रूयते १'मेघो भूत्वा प्रवर्षति त इह वीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते" इति । ते किं व्रीह्यादिशरीरा जायन्ते, उतान्यैः क्षेत्रह्यिादिशरीरैरधिष्ठितान्त्रीह्यादीनाश्लिप्यन्तीति संशयः। १"जायन्ते" इति वचनाहीहादिशरीरभोक्तारो जायन्त एवेति पूर्वः पक्ष रा. द्वान्तस्तु --- ब्रीद्यादिजन्महेतुभूतकर्मविशेषाश्रवणाड्रीडादिसंश्लेषमात्रमेव । १"जायन्ते" इति जन्मवचनमौपचारिकम् । ब्राह्मणादिशरीरभावे हि १'रमणीयचरणाः...कायचरणाः" इति जन्महेतुभूतं पुण्यपापरूपं कर्म श्रूयते । सू पार्थस्तु-अन्याधिष्ठिते-अन्यक्षेत्राधिष्ठिते ब्रीह्यादौ, संश्लेषमात्रम्, कुतः? पूर्ववदभिलापात्-आकाशादिभाववत्केवलवीयादिभावाभिलापात्; जन्महे. तुभूतकर्मानभिलापादित्यर्थः ॥ २४॥ अशुद्धमितिचेन्न शब्दात्।। यद्यपि ब्रीह्यादिभावेन जायन्त इस्यत्र जमहेतुभूतं कर्म न श्रुतम् ; तथापि पूर्वश्रुतमिष्टादिकर्माग्नीषोमीयादिहिंसागर्भत्वेनाशुद्धम् । हिंसात्वेनाशुचित्रीह्यादिजन्मनोऽपि हेतुर्भवतीति चेत्–न, अ. हिंसात्वशब्दात् पशोर्हि संझपनस्य वर्गावाप्तिसाधनभाववादिशब्दः श्रूयते२"हिरण्यशरीर ऊर्ध्वस्वर्ग लोकमेति' ३"न वा उ वेतन्नियसे न रिष्यसि" इत्यादिः॥२५॥ रेतस्सिग्योगोऽथ ॥ इतश्च ब्रीह्यादिसंश्लेषमात्रम् , व्रीह्यादिभावानन्तरं रेतस्सिग्योगश्श्रूयते १“यो यो हनमत्ति यो रेतस्सिञ्चति तद्भय एव भपति" इति।अत्र हि पुरुषसंश्लेषमात्रमेष श्रुतम् एवमेव बाह्यादिभावेऽपत्यर्थः॥ योनेश्शरीरम् ॥ योनिप्राप्तेः पश्चादेवावरोहतो जीवस्य शरीरप्राप्तिः, तत्रैव सुखदुःखोपभोगात् । ततः प्रागाकाशादिषु तत्तत्संश्लेषमात्रमेवेत्यभिप्रायः॥२७॥ इति वेदान्तदीपे अन्याधिष्ठिताधिकरणम् ॥ ६॥ इति श्रीभगवद्रामानुजविरचिते श्रीवदान्तदीपे तृतीयस्यान्यायस्य प्रथमः पादः ॥१॥ १. छा. ५-१०-६,७॥-२॥-३, यजु. ४.१-६-४६॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy