________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Arviette wwww
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते
श्रीशारीरकमीमांसाभाष्ये ---(तृतीयाध्याये - द्वितीयः पादः-प्राणोत्पत्यधिकरणम् ॥rm
सन्ध्ये सृष्टिराह हि । ३।२।१॥ ___ एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितम् । इदानीमस्य स्वभावस्था परीक्ष्यते। स्वममधिकृत्य श्रूयते १"न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथान् रथयोगान् पथस्सृजते न तत्रानन्दा मुदः प्रमुदो भवन्ति अथानन्दान् मुदः प्रमुदः सृजते न तत्र वेशान्ताः पुष्करिण्यः सवन्त्यो भवन्ति अथ वेशान्ताः पुष्करिण्यः सवन्त्यस्सृजते स हि कर्ता"इति। तत्र संशयः-किमियं रथादिसृष्टिीवेनैव क्रियते ; आहोस्विदीश्वरेण-इति । किंयुक्तम् ? सन्ध्ये सृष्टिीवेनेति । कुतः सन्ध्यं-स्वमस्थानमुच्यते, २“सन्ध्यं तृतीयं स्वमस्थानम्" इति वचनात् । सा तु जीवेनैव क्रियते १"सृजते स हि कर्ता" इत्याह हि । स्वमदृग्जीव एव तत्र प्रतीयते ॥ १॥ निर्मातारं चैके पुत्रादयश्च । ३।२।२॥
किञ्च-एनं जीवं स्वमे कामानां निर्मातारमेके शाखिनोऽधीयते ३“य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाणः" इति । पुत्रादयश्च तत्र काम्यमानतया कामशब्देन निर्दिश्यन्त, नेच्छामात्रम् पूर्वत्र हि“स
... ६-३.१० ।-२ ।।-३. कठ. २-५.८ ॥-४. कठ. १-१-२५॥
For Private And Personal Use Only