________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.] भन्याधिष्ठिताधिकरणम्.
२१७ नभयिनां भूयमाणो यथा तयोगमात्र प्रतिपादयति । तद्दीलादिभावोऽपीत्यर्थः ॥ २६ ॥
योनेश्शरीरम् । ३। १ । २७॥ । योनिप्राप्तेः पश्चादेवानुशयिनां शरीरमाप्तिः, तलैव सुखदुःखोपभोगसद्भावात् । ततः प्रागाकाशादिप्राप्तिप्रभृति तद्योगमात्रमेवेत्यर्थः॥
इति श्रीशारीरकमीमांसाभाष्ये अन्याधिष्ठिताधिकरणम् ॥६॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये
तृतीयस्याध्यायस्य प्रथमः पादः॥१॥
वेदान्तसारे-अन्याधिष्ठिते पूर्ववदभिलापात् ॥ १"त इह वीहि. यवाः" इत्यादौ चान्यजीवाधिष्ठिते व्रीहियवादौ संश्लेषमात्रम्, अवरोहतः आ. काशादिग्विव जननहेतुविरहिताभिलापात् । १"जायन्ते" इति वचनमोपचारिकम् । यत्र ब्राह्मणादिजन्मास्ति, तत्र १"रमणीयचरणाः" इति हि हेतुरभि लप्यते ॥ २४॥
अशुद्धमितिचेन्न शब्दात्।। अवरोहतः पूर्वानुष्ठितयागादिषु अग्नीषो. मीयादिहिंसागर्भत्वेन अशुद्धं कर्मास्तीतिचेत्न, २ "हिरण्यशरीर ऊर्ध्वस्वर्ग लोकमेति' ३"न वा उ वेतन्नियसे न रिग्यसि" इति पशुसंझपनस्याहिंसात्वशब्दात् ॥ २५॥
रेतस्सिग्योगोऽथ ॥ "योयो ह्यन्नमत्ति यो रेतस्सियति" इति अन्नेन संसृष्टस्य रेतस्सिचा योगमात्रमनन्तरमुच्यते; अतः पूर्वमपि बीह्यादियोगमात्रम् ॥ २६ ॥ योनेश्शरीरम् ॥ योनिप्राप्तेः पश्चादेवावरोहता शरीरं प्राप्यते ॥२७॥
इति वेदान्तसारे अन्याधिष्ठिताधिकरणम् ॥ ६ ॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे तृतीयस्याध्यायस्य
प्रथमः पादः॥१॥
१. छा. ५-१०-६, ७॥-२॥-३. यजु, ४-९-६-४६ ॥
28
For Private And Personal Use Only