________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
श्रीशारीरकमीमांसाभाचे [म. ३. नैवम्,इहापि रागमाप्तेरविशिष्टत्वात् । १"स्वर्गकामो यजेत"इत्येवमादौ हि कामिनः कर्तव्यतया यागाद्युपदेशाद्यागादेः स्वगादिसाधनत्वमवगम्य फलरागत एव यागादौ प्रवर्तते । अग्नीषोमीयादिष्वपि तेषां फलसाधनभूतस्य यागादेरुपकारकत्वं शास्त्रादवगम्य रागादेव प्रवर्तते । लौकिक्यामपि हिंसायां केनचित्प्रमाणेन हिंसायाः स्वसमीहितसाधनत्वमवगम्य रागात्प्रवर्तत इति न कश्चन विशेषः । तथा नित्येष्वपि कर्मसु २ “सर्ववर्णानां खधर्मानुष्ठाने परमपरिमितं सुखम्" इत्यादिवचनात्फलसाधनत्वमवगम्य रागादेव प्रवृत्तिरिति तेषामप्यशुद्धियुक्तत्वम् । अत इष्टादीनां पापमिश्रत्वेनाशुद्धियुक्तानां स्वर्गेऽनुभाव्यं फलं स्वर्गेऽनुभूय हिंसांशस्य फलं व्रीह्यादिस्थावरभावेनानुभूयते । स्थावरभावं च पापफलं स्मरन्ति ३"शरीरजैः कर्मदोषैर्याति स्थावरतां नरः" इति। अतो ब्रीह्यादिभावेन भोगायानुशयिनो जायन्त इति चेत्-तन्न,कुतः शब्दात्-अग्नीषोमीयादेस्संज्ञपन. स्य स्वर्गलोकप्राप्तिहेतुतया हिंसात्वाभावशब्दात् । पशोहि संज्ञपननिमित्ता स्वर्गलोकप्राप्तिं वदन्तं शब्दमामनन्ति ४"हिरण्यशरीर ऊर्ध्वः स्वर्ग लोकमेति" इत्यादिकम् । अतिशयिताभ्युदयसाधनभूतो व्यापारोऽल्पदुःखदोऽपि न हिंसा ; प्रत्युत रक्षणमेव । तथा च मन्त्रवर्णः ५“न वा उ एतन्नियसे न रिष्यसि देवान् इदेषि पथिभिस्सुगेभिः। यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवस्सविता दधातु" इति । चिकित्सकं च तादात्विकाल्पदुःखकारिणमपि रक्षकमेव बदन्ति, पूजयन्ति च तज्ज्ञाः।।
रेतस्सिग्योगोऽथ । ३।१।२६ ॥ इतश्चौपचारिकं व्रीह्यादिजन्मवचनम्,त्रीह्यादिभाववचनानन्तरं “यो यो बन्नमत्ति यो रेतस्सिश्चति तद्भूय एव भवति" इति रेतस्सिग्भावोऽ
४॥
१. यजु. २-५-५ ॥-- २. आपस्तम्ब. २-१-२-२॥---३. मनु. १-२-९॥ ५. यजु. २-का. ६.प्र. ९ अनु. ४९ प॥-६. छा. ५.१०.६ ॥
For Private And Personal Use Only