________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
अन्याधिष्ठिताधिकरणम् भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमापा जायन्ते" इति । ते किमन्यैर्भोक्तृभित्रीयादिशरीरैरधिष्ठितान्त्रीयादीनाश्लिष्यन्ति, उत ते भोक्तारो ब्रीडादिशरीरा जायन्त इति विशये १ " जायन्ते" इति वचनादेवो जायते मनुष्यो जायत इतिनद्रीसादिशरीरा एव
(सिद्धान्तः)...इति प्राप्त उच्यते-अन्याधिष्ठिते-इति।जीवान्तरेणाधिष्ठिते ब्रीडादिशरीरे तेषां संश्लेषमात्रमेव । कुतः पूर्ववदभिलापात्-आकाशादिमेघपर्यन्तवत्केवनतद्भावाभिलापात् । यत्र हि भोक्तृत्वमभिप्रेतम् । तत्र तत्साधनभूतं कर्माभिलप्यते ?"रमणीयचरणाः...कपूयचरणाः" इति । इह चाकाशादिवन्नाभिलप्यते कर्म, फलप्रदाने प्रवृत्तस्य स्वर्गोपभोग्यफलस्येष्टादेः कर्मणः स्वर्गोपभोगादेव समाप्तत्वात् , अनारन्धस्य १ "रमणीयचरणा: ...कपूयचरणाः" इति वक्ष्यमाणत्वात्, मध्ये कर्मान्तराभावाच। अत आकाशादिभाववचनवद्रीयादिभावेन जन्मवचनमौपचारिकम् ॥ २४ ॥ अशुद्धमितिचेन्न शब्दात् । ३।१ । २५॥
नैतदस्ति-यदन्याधिष्ठिते ब्रीह्यादिशरीरे संश्लेषमात्रम् , भोक्तृत्व. हेत्वभावान ब्रीद्यादिभावेन जन्म-इति भोक्तृत्वहेतुसद्भावात् स्वर्गोपभोग्यफलमिष्टादिकर्मैवाशुद्धम्-पापमिश्रम्, अग्नीषोमीयादिहिंसायुक्तत्वात् । हिंसा च २"न हिंस्यात्सर्वा भूतानि" इति निषिद्धत्वात्पापमेव । नचात पदाहवनीयादिवदुत्सर्गापवादभावस्सम्भवति, भिन्नविषयत्वात् । अग्नीपोमीयहिंसाविधिहिँसायाः ऋतूपकारकत्वं बोधयति २ "न हिंस्यात्" इति तु हिंसायाः प्रत्यवायफलत्वम् । अथोच्येत-अग्नीषोमीयादिषु वि. धितः प्रवृत्तेने तद्विषयं निषेपविधिरास्कन्दति, रागमाप्तविषयत्वात्तस्येति
१. छा. ५-१०-६,७॥
२॥
For Private And Personal Use Only