________________
Shri Mahavir Jain Aradhana Kendra
२१४
www.kobatirth.org
श्रीशारीरकमीमांसाभाग्ये
...fast:)... (सिद्धान्तः)
Acharya Shri Kailassagarsuri Gyanmandir
इति प्राप्ते उच्यते - नातिचिरेण - इति । कुतः । विशेषात् - उत्तरत्र व्रीशादिप्राप्तौ १" अतो वै खलु दुर्निष्मपतरम्" इति विशिष्य कृच्छ्रनिष्क्रमणत्वाभिधानात् पूर्वत्र ह्याकाशादिप्राप्तावचिरनिष्क्रमणं गम्यते । दुर्निष्यपतरमिति च्छान्दसस्तशब्दलोपः दुर्निष्यपतरं - दुःखनिष्क्रमणतरमित्यर्थः ॥ इति श्रीशारीरकमीमांसाभाष्ये नातिचिराधिकरणम् ॥ ५ ॥
१. छा. ५-१०-६ ॥
[म. ३०
वेदान्तसारे-नातिचिरेण विशेषात् ॥ व्रीह्यादिप्राप्तेः प्रागाकाशादिषु नातिचिरं तिष्ठति, १" अतो वै खलु दुर्निष्प्रपतरम्" इति व्रीह्यादावेव विशेषवचनात् ॥ २३ ॥ इति वेदान्तसारे नातिचिराधिकरणम् ॥ ५ ॥
वेदान्तदीपे - नातिचिरेण विशेषात् || आकाशवायुधूमाभ्रमेघवर्षप्राप्तौ किं तत्रतत्र नातिचिरं तिष्ठति, उतानियम इति संशयः । अनियम इति पूर्वः पक्षः, नातिचिरेणेति विशेषवचनाभावात् । राद्धान्तस्तु—उत्तरत्र व्रीह्मादिभावे १'' अतो वै खलु दुर्निपतरम्" इति विशिष्य चिरेण गमनवचनं ततः प्राचीनेष्वचिरगमनं द्योतयतीत्याकाशा दिया वह्नीह्यादिभावप्राप्ति नातिचिरं तिष्ठति - इति । सूत्रमपि व्याख्यातम् ॥ २३ ॥
इति वेदान्तदीपेनातिचिराधिकरणम् ॥ ५ ॥
(श्रीशारीरकमीमांसाभाष्ये अन्याधिष्ठिताधिकरणम् || ६ ||
अन्याधिष्ठिते पूर्ववदभिलापात् । ३ ।.१ । २४ ॥
अवरोहन्तो जीवाः व्रीह्मादिभावेन जायन्त इति श्रूयते १" मेघो
For Private And Personal Use Only