SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नातिचिराधिकरणम्. पा. १.] २१३ बानुपपत्तेस्तदापत्तिवचनं तत्संसर्गकृततत्सादृश्यापत्त्यभिप्रायम् ॥ २२ ॥ इति श्रीशारीरकमीमांसाभाष्ये तत्स्वाभाव्यापत्त्यधिकरणम् ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir वेदान्तसारे—तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ १" यथेतमाकाशम् " इत्यादिना आकाशसादृश्यापत्तिः प्रत्यवरोहत उपदिश्यते, तत्रतत्र सुखदु:खानुभवाभावोपपत्तेः । तदनुभवार्थं हि तत्तच्छरीरता ॥ २२ ॥ इति वेदान्तसारे तत्स्वाभाव्यापत्त्यधिकरणम् ॥ ४ ॥ बेदान्तदीपे - तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ धूमादिना चन्द्रमसं प्रातस्य प्रत्यवरोहप्रकार आम्नायते १ " यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति " इति । 'अत्राकाशादिभावः, किं देवमनुष्यादिभाववदाकाशादिशरीरत्वम्, उत तत्सादृश्यापत्तिरिति संशयः । आकाशादिशरीरत्वमिति पूर्वः पक्षः, श्रद्धावस्थस्य सोमराजभाववत् ; तत्र हि तच्छरीरत्वमेवोच्यते । राद्धान्तस्तु - आकाशादिप्राप्तौ सुखदुःखानुभवाभावात् तत्सादृश्यापत्तिरेव । सुखदुःखानुभवाय हि सोमादिशरीरत्वम् । सूत्रार्थस्तु तत्स्वाभाव्यापत्तिः आकाशादि सादृश्यापत्तिः, उपपत्तेः सुखदुःखानुभवाभावोपपत्तेः ॥ २२ ॥ इति वेदान्तदीपे तत्स्वाभाव्यापत्त्यधिकरणम् ॥ ४ ॥ १. छा. ५.१० ५ ॥ - ( श्रीशारीरकमीमांसाभाष्ये नातिचिराधिकरणम् ।। ७ ।। ) - •• - नातिचिरेण विशेषात् । ३ । १ । २३ ॥ आकाशप्राप्तिप्रभृति यावई । ह्यादिप्राप्ति किं तत्रतत्र नातिचिरं तिष्ठति, उतानियम इति विशये नियमहेत्वभावादनियमः - For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy