________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
२०९
तृतीयशब्दावरोधस्संशोकजस्य । ३ । १ । २१ ॥
संशोकजस्य - स्वेदजस्यापि १ “ आण्डजं जीवजमुद्भिज्जम्" इत्यत्र तृतीयेनोद्भिज्जशब्देनावरोधः सङ्ग्रहो विद्यत इत्यर्थः; अतः केवलपापकर्मणां चन्द्रप्राप्तिर्न सम्भवति ॥ २१ ॥
इति श्री शारीरकमीमांसाभाष्ये अनिष्टादिकार्यधिकरणम् || ३ ||
अनिष्टादिकार्यधिकरणम्.
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तसारे — अनिष्टादिकारिणामपि च श्रुतम् ॥ इष्टापूर्तयकुवैतामपि चन्द्रगमनमस्ति २' "ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते" इत्यविशेषात् ॥ १२ ॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ इष्टापूर्ताद्यकुर्वतां यमसदने तत्फलमनुभूयारोहादिः, ३" वैवस्वतं सङ्गमनम्" इत्यादी तद्वतिदर्शनात् ॥ १३ ॥
स्मरन्ति च ॥ ४" सर्वे चैते वशं यान्ति यमस्य " इति ॥ १४ ॥ अपि सप्त || सप्त रौरवादीनपि स्मरन्ति ॥ १५ ॥
तत्रापि तव्यापारादविरोधः ॥ तत्रापि यमव्यापारादेव यमवश्यताया अविरोधः ॥ १६ ॥
विद्याकर्मणोरिति तु प्रकृतत्वात् || विद्याकर्मणोः फलं ब्रह्मागमनं चन्द्रगमनञ्च। कथम् ? ५‘“तद्य इत्थं विदुः तेऽर्चिषमभिसम्भवन्ति " ६" इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति” इति प्रकृतत्वात् ब्रह्मचन्द्रगमनयोः । पापिनां न तद्गतिप्रसङ्गः ॥ १७ ॥
अतः
न तृतीये तथोपलब्धेः ॥ न च पापिनां द्युलोकगमनाय चन्द्रलोकगमनापेक्षा, तेषान्द्युलोकगमनाभावोपलब्धेः -- ७ ' ' अथैतयोः पथोर्न कतरेण च" इत्यारभ्य, ७" एतत्तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते” इति । तृती स्थानमिति पापकर्माण उच्यन्ते ॥ १८ ॥
१. छा. ६-३-१ ॥―२. कौषी. १. अ. २ ॥ - ३. आरण. २. प्र. १. प॥४. वि. पु. ३-७-५ ॥ - ५. डा. ५-१०-१९॥ - ६. का. ५-१०-३॥ - ७.छा. ५-१०-८ ॥ *27
For Private And Personal Use Only