________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
श्रीशारीरकमीमांसाभाग्ये
[अ. ३, शरीराम्भश्श्रूयते, सा चाहुतिश्चन्द्रप्राप्तिपूर्विकेति दर्शितम् । अतश्शरीरारम्भायैव तेषामपि चन्द्रारोहावरोहाववश्याभ्युपेत्यावित्यत आह
न तृतीये तथोपलब्धेः । ३।१।१८॥ __* तृतीयस्थानस्य शरीरारम्भाय न पश्चमाहुत्यपेक्षाः कुतः तथोपलब्धेः-तृतीयस्थानशब्देन केवलपापकर्माण उच्यन्ते, तेषां देहारम्भे पञ्चमाहुत्यनपेक्षत्वमुपलभ्यते १ "वेत्थ यथा केनासौ लोको न संपूर्यते" इत्यस्य प्रश्नस्य प्रतिवचने २ " अर्थतयोः पथोर्न कतरेण च तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्वम्रियखेत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यते" इति तृतीयस्थानस्य द्युलोकारोहावरोहाभावेन धुलोकासंपूर्तिवचनादस्य तृतीयस्थानस्य शरीरारम्भाय न पश्चमाहुत्यपेक्षा । ३ “पञ्चम्यामाहुतौ" इतिचापां पश्चमाग्निसम्बन्धस्य पुरुषवचस्त्वहेतुत्वमात्र प्रतिपादयति, नान्यन्निवारयति, अवधारणाश्रवणात् ॥
स्मयतेऽपि च लोके । ३ । १ । १९॥
पुण्यकर्मणामपि केषाश्चित्पश्चमाहुत्यनपेक्षया देहारम्भो लोके स्मयते द्रौपदीधृष्टद्युम्नप्रभृतीनाम् ॥ १९ ॥
दर्शनाच्च । ३।१।२०॥ श्रुतावपि दृश्यते केषाश्चित्पश्चमाहुत्यनपेक्षया देहारम्भः ३ " तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति आण्डजं नीवजमुद्भिजम्" इति एवमुद्भिज्जस्वेदजयोः भूतयोः पश्चमाहुतिमन्तरेणोत्पत्तिदृश्यते ॥२०॥
ननु खेदजानामत्र न सङ्कीर्तनमास्त ३ "त्रीण्येव बीजानि" इति वचनात् तत्राह
*तृतीयस्य स्थानस्य. पा॥-१. छा. ५-३-३।।--२.का. ५-१०८ ॥-३.डा.६-३-२॥
For Private And Personal Use Only