________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
पा. १.]
अनिष्टादिकार्यधिकरणम् . तत्रापि तद्व्यापारादविरोधः । ३।१ १६॥
तेष्वपि सप्तमु यमाज्ञयैव गमनादविरोधः । अतोऽनिष्टादिकारिणामपि यमलोकं प्राप्य वकर्मानुरूपं यातनाश्चानुभूय पश्चाचन्द्रारोहावरोही स्तः ॥१६॥
---(सिद्धान्तः)---- इति प्राप्त उच्यतेविद्याकर्मणोरिति तु प्रकृतत्वात् । ३।१।१७॥
तुशब्दः पक्षव्यावृत्त्यर्थः। अनिष्टादिकारिणामपि चन्द्रप्राप्तिरस्तीसेतन्नोपपद्यते ; कुतः ? विद्याकर्मणोरिति विद्याकर्मणोः फलभोगार्थत्वादेवयानपिढ्याणयोः। एतदुक्तं भवति-अनिष्टादिकारिणां यथा विद्याविधुरत्वाद्देवयानेन पथा गमनं न सम्भवति । तद्वदेवेष्टापूर्तदत्तविधुरत्वात्पित्याणेन चन्द्रगमनमपि न सम्भवति-इति । देवयानपितृयाणयोः विद्याविषयत्वं पुण्यकर्मविषयत्वं च कथमवगम्यत इति चेत्-प्रकृतत्वात्तयोः। प्रकृता हि देवयाने विद्या, पितृयाणेच कर्म १“तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" इत्युक्त्वा १" तेऽर्चिषमभिसम्भवन्त्यषिोऽहः" इत्यादिना देवयानवचनात् , २ “अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते " इत्युक्त्वा २ " ते धूममभिसम्भवन्ति” इत्यादिना पितृयाणवचनाच । ३ “ये वै के चास्माल्लोकात्यन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति" इत्येतदपि वचनं ‘य इष्टादिकारिणः ते सर्वे' इति परिणेयम् ।।
ननु पापकर्मणां चन्द्रगमनाभावे पश्चमाहुत्यसम्भवाच्छरीरारम्भ एव नोपपद्यते ; ४ " पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति हि
१. छा. ५-१०-१॥-२. छा . ५.१०.३ ।।---३. कौषी. १. अ. २ ॥४. छा. ५.९-१॥
For Private And Personal Use Only