________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६ श्रीशारीरकमीमांसाभाग्ये
[म.३. केवलेष्टापूर्तदत्तकारिणश्चन्द्रमसं गत्वा सानुशया एव निवर्तन्त इत्युक्तम् । इदानीमनिष्टादिकारिणोऽपि चन्द्रमसं गच्छन्ति,नेति चिन्त्यते। ये विहितं न कुर्वन्ति, निषिद्धं च कुर्वन्ति, त उभयेऽपि पापकर्माणोsनिष्टादिकारिणः । किं युक्तम् ? तेऽपि चन्द्रमसं गच्छन्तीति ; कुतः १ ते षामपि हि तद्गमनं श्रुतं-१“ये वैकेचास्माल्लोकात्मयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति" इत्यविशेषेण सर्वेषामेव गतिश्रवणात् ॥ १२ ॥
एवं तर्हि सुकृतदुष्कृतकारिणोरुभयोरप्यविशिष्टैव गतिस्स्यात् ; नेत्याहसंयमने त्वनुभूयेतरेषामारोहावरोहौ तगति
दर्शनात् । ३।१।१३॥ तुशब्दश्शङ्का व्यावर्तयति ; इतरेषाम् - अनिष्टादिकारिणां चन्द्रारोहावरोही संयमने-यमशासने तत्प्रयुक्तयातना अनुभूयैव, नान्यथा; कुतः तद्गतिदर्शनात्-दृश्यते हि पापकर्मणां यमवश्यतया तद्गमनम् २ "अयं लोको नास्ति न पर इतिमानी पुनःपुनर्वशमापद्यते मे" ३ “वैवस्वतं सङ्गमनं जनानां यमं राजानम्" इत्यादिषु ॥ १३ ॥
स्मरन्तिच । ३।१।१४॥ स्मरन्ति च सर्वेषां यमवश्यतां पराशरादयः ४ "सर्वे चैते वशं यान्ति यमस्य भगवन्किल" इत्यादिषु ॥ १४ ॥
अपि ५ । ३।१।१५॥ पापकर्मणां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपि स्मरन्ति॥१५
ननु सप्तमु लोकेषु गच्छतां कथं यमसदनप्राप्तिः, अत आह१. कौषी. अ. १. २ ॥-२ ॥ ३. आरण, २. प्र. १. प ॥ --४. वि. पु. ३-७-५ ॥
For Private And Personal Use Only