________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
कृतात्यबाधिकरणम्.
२०५
चण्डालयोनिं वा" इति रमणीयचरणा ब्राह्मणादियोनिं कपूयचरणाः कुत्सितकर्माणः श्वकारादियोनिं प्रतिपद्यन्त इति श्रुतेः । १" प्राप्यान्तं कर्मणः” इत्यादिश्रुतिः फलप्रदानप्रवृत्त कर्मविषयेति सानुशयो निवर्तते । सूत्रार्थस्तु – कृतात्यये कृतस्य पूर्वकर्मणोऽत्यये, अनुशयवान् भुक्तशिष्टकर्मवान्निवर्तते ; कुतः १ दृष्टस्मृतिभ्याम् -- श्रुतिस्मृतिभ्यामवगम्यते ; २" तद्य इह रमणीयचरणाः" इत्यादिश्रुतिः ; ३" ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपम्" इत्यादिका स्मृतिः, यथेतमनेवं च-- आरोहणप्रकारेण प्रकारान्तरेण च निवर्तन्ते । चन्द्रमसस्स्थानादाकाशमित्यारोहणक्रमेणावरोहन्ति, वायुधूमाभ्रादिना प्रकारान्तरे
णच ॥ ८ ॥
चरणादितिचेन्न तदुपलक्षणार्थेति काष्र्णाजिनिः ॥ २" रमणीयचरणाः" इति रमणीयाचारस्य स्मृतिविहितस्य ब्राह्मण्यादिप्राप्तिसाधनत्वश्रवणात् न कर्मा प्रत्यवरोहतीति चेत्-तन्न, चरणश्रुतिः कर्मोपलक्षणार्थेति कार्णाजिनिराचार्यो मन्यते, पुण्यस्यैव कर्मणस्सुखप्राप्तिसाधनत्वात् ॥ ९ ॥
आनर्थक्यमितिचेन्न तदपेक्षत्वात् || स्मृतिविहितस्याचारस्याकिञ्चि त्करत्वेनानर्थक्यं प्रसज्यत इति चेत्-न, तदपेक्षत्वात्-आचारापेक्षत्वात्सुखसाधनभूतपुण्यकर्मणः ४" सन्ध्याहीनो ऽशुचिर्नित्यमन ईस्सर्वकर्मसु " इति सर्वे हि पुण्यकर्माचारापेक्षमेवेति कार्ष्णाजिनेर्मतम् ॥ १० ॥
;
सुकृतदुष्कृते एवेति तु बादरिः ॥ तुशब्दः पूर्वमतव्यावृत्त्यर्थः ; २" रमणीयचरणाः .. कपूयचरणाः" इति चरणशब्देन सुकृतदुष्कृते एव कर्मणी प्रतिपाद्येते; 'पुण्यं कर्माचरति' इति चरतेः कर्मणि प्रसिद्धेः न लक्षणा न्याय्येति बादरिर्मन्यते । इदमेव सूत्रकाराभिप्रेतम् तुशब्देन पूर्वमताद्व्यावृतेः सुकृतदुष्कृते एवेति व्यावर्तनात् । 'आनर्थक्यमितिचेश्न तदपेक्षत्वात्' इति तु स्वीकृतम् ॥ ११ ॥
"
इति वेदान्तदीपे कृतात्ययाधिकरणम् || २ |
(श्रीशारीरकमीमांसाभाष्ये अनिष्टादिकार्यधिकरणम् ||३||) अनिष्टादिकारिणामपि च श्रुतम् । ३ । १ । १२ ॥
१. बृ. ६-४-६ ॥ २. छा. ५-१०-७ ॥ --३. आपस्त. २-१-२-३ ॥ ४ ॥
For Private And Personal Use Only