________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
वेदान्तदीपे
[अ. ३.
सम्पादनं फलमिति तु स्वीकृतम् । अतस्सानुशया एव प्रत्यवरोहन्ति ॥
इति श्रीशारीरकमीमांसाभाष्ये कृतात्ययाधिकरणम् ॥ २ ॥
वेदान्तसारे - कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ कृतस्य कर्मणोऽन्ते निवर्तमानो भुक्तशिष्टकर्मवान्निवर्तत इति श्रुतिस्मृतिभ्यामवगम्यते । १" रमणीयचरणाः... रमणीयां योनिमापद्यन्ते" इति श्रुतिः । २" ततः परिवृत्तौ कर्मफलशेषेण जाति रूपम्" इत्यादिका स्मृतिः । आरोहप्रकारेण मार्गैकदेशः, प्रकारान्तरेण चैकदेशः ॥ ८ ॥
चरणादितिचेन्न तदुपलक्षणार्थेति काष्र्णाजिनिः ॥ १" रमणीयचरणाः" इति चरणशब्दान्नानुशयः, चरणशब्दस्य स्मार्ताचार विषयत्वादिति चेत् —न, अनुशयोपलक्षणार्था आचारश्रुतिः, तस्यैव सुखसाधनत्वात् ॥ ९ ॥
आनर्थक्यमितिचेन्न तदपेक्षत्वात् || स्मार्ताचारस्यानुपयोगात् आ. नर्थक्यमिति चेत्-न, तदपेक्षत्वात् सर्वस्य पुण्यकर्मणः, ३" सन्ध्याहीनोऽशुचिर्नित्यमनस्सर्वकर्मसु" इति वचनादिति कार्ष्णाजिनिमतम् ॥ १० ॥
सुकृतदुष्कृते एवेति तु बादरिः ॥ १" रमणीयचरणाः कपूयचरणाः" इति चरणशब्देन सुकृतदुष्कृते एवाभिधीयेते । 'पुण्यं कर्माचरति' इति प्रसिद्धेरिति बादरिः । एतदेव स्वीकृतम् ; स्मार्ताचारापेक्षं सर्व पुण्यं कर्मेति च स्वीकृतम् ॥ ११ ॥
इति वेदान्तसारे कृतात्ययाधिकरणम् ॥ २ ॥
वेदान्तदीपे - कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ धूमादिना गतो निवर्तमानो जीवः सानुशयो निवर्तते, उत नेति संशयः । नेति पूर्वः पक्षः । अनुशयो हि भुक्तशिष्टं कर्म । १" यावत्सम्पातमुषित्वा " ४" प्राप्यान्तं कर्मणः" इत्यादिश्रुतिभ्यः कृत्स्नस्य कर्मणोऽनुभूतताप्रतीतेः नानुशयवान्निवर्तते । राद्धान्तस्तु - १" तद्य इह रमणीयचरणा अभ्याशी ह यन्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं क्षत्रियोनिं वैश्ययोनिं वा अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सुकरयोनिं वा
१. छा. ५-१०-७, ५ ॥ २. आपस्तम्ब. २-१-२-३ ॥ ३ ॥ - ४. . ६-४-६ ॥
For Private And Personal Use Only