________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.] कृतास्थयाधिकरणम्.
२०३ चरणादितिचेन्न तदुपलक्षणार्थेति कार्णाजिनिः ।
३।१।९॥ "रमणीयचरणाः" १“कपूयचरणाः" इति न चरणशब्देन पु. ण्यपापरूपं कर्माभिधीयते,चरणशब्दस्य लोकवेदयोराचारे प्रसिदेः लोकिकाः खलु चरणमाचारः शीलं वृत्तमिति पर्यायानभिमन्यन्ते ; वेदे च २"यान्यनवद्यानि कर्माणि तानि सेवितव्यानि" २"यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि" इति चरणकर्मणी भेदेन व्यपदिश्यते; अतः चरणात्-शीलात् योनिविशेषप्राप्तिः, नानुशयादितिचेत्-तन्न, चरणश्रुतिः कर्मोपलक्षणार्थेति कार्णाजिनिराचार्यों मन्यते, केवलादाचारासुखदुःखप्राप्त्यसम्भवात् । सुखदुःखे हि पुण्यपापरूपकर्मफले ॥९॥ आनर्थक्यमितिचेन्न तदपेक्षत्वात्।३।१।१०॥
एवं तीफलत्वादाचारस्य स्मृतिविहितस्यानर्थक्यमेवेति चेत्-तन्त्र, तदपेक्षत्वात्पुण्यस्य कर्मणः आचारवत एव पुण्यकर्मस्खधिकारः-३"सन्ध्याहीनोऽशुचिनित्यमनहस्सर्वकर्मसु"४"आचारहीनं न पुनन्ति वेदाः" इत्यादिवचनेभ्यः । अतश्चरणश्रुतिः कर्मोपलक्षणार्थेति कार्णाजिनेरभिप्रायः ॥१०॥ सुकृतदुष्कृते एवेति तु बादरिः।३।१।११॥
'पुण्यं कर्माचरति पापं कर्माचरति इति कर्मणि चरतेः प्रयोगात्, पृथनिर्देशस्य च प्रत्यक्षश्रुतिसिद्धाचारानुमितश्रुतिसिद्धविषयत्वेन गोबलीवर्दन्यायेनोपपत्तेः । मुख्य सम्भवति न लक्षणा न्याय्येति सुकृतदुष्क ते एव चरणशब्दाभिधेये इति बादरिराचार्यों मन्यते । अत्र बादरिमतमेव स्वमतम् । आचारानुमितश्रुतिविहितसन्ध्यावन्दनादेः कर्मान्तराधिकार
१. छा, ५-१०-७ ॥–२. तै. शिक्षा. ११-२ ॥३॥-४ ॥
For Private And Personal Use Only