SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ श्रीशारीरकमीमांसाभाग्ये [अ. ३. १ "प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरेत्यमै लोकाय कर्मणे" इति ॥ --सिद्धान्तः.)-..एवं प्राप्तेऽभिधीयते-अनुशयवान् प्रत्यवरोहति-इति। कुतः दृष्टस्मृतिभ्यां श्रुतिस्मृतिभ्यामित्यर्थः। श्रुतिस्तावत्-२ " तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापोरन् ब्राह्मणयोनि क्षत्रिययोनि वैश्ययोनि वा अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापोरन् श्वयोनि वा सूकरयोनि वा चण्डालयोनिवा" इति प्रत्यवरूढान् प्रति श्रूयते । अमुष्माल्लोकात्मत्यवरूढेषु रमणीयकर्माणो रमणीयां ब्राह्मणादियोनि प्रतिपद्यन्ते ; कपूयचरणा:-कुत्सितकर्माणः कुत्सितां श्वसूकरचण्डलादियोनि प्रतिपद्यन्त इति प्रत्यवरूढानां पुण्यपापकर्मयोगं दर्शयति । स्मृतिरपि-३ "वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुश्श्रुतवित्तवृत्तसुखमेधसो जन्म प्रतिपद्यन्ते विष्वञ्चो विपरीता नश्यन्ति" इति । तथा-४ "ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्ण बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यन्ते तच्चक्रवदुभयोर्लोकयोस्सुख एव वर्तते " इति । २"यावत्सम्पातम्" इति फलदानप्रवृत्तकर्मविशेषविषयम् ; १"यत्किचेह करोत्ययम्" इतीदमपि तद्विषयमेव । अभुक्तफलानामकृतप्रायश्चित्तानां च कर्मणां कमान्तरफलानुभवान्नाशोऽप्यनुपपन्नः । अतोऽमुं लोकं गतास्सानुशया एव यथेतमनेवं च पुनर्निवर्तन्ते-आरोहणप्रकारेण प्रकारान्तरेण च पुनर्निवर्तन्त इत्यर्थः । आरोहणं हि धूमराव्यपरपक्षदक्षिणायनषण्मासपितृलोकाकाशचन्द्रक्रमेण ; अवरोहणं तु चन्द्रमसः स्था. नादाकाशवायुधूमाभ्रमेघक्रमेण । तत्राकाशावरोहणायथेतम् ; वाय्वादिप्राप्तेः पितृलोकायप्राप्तश्चानेवम् ॥ ८॥ १.अ. ६-४-६॥-२.छा, ५-१०-७, ५॥-३. गौतम. २.प्र. ११-अ, १२,१३॥ –४. आपस्तम्ब. २-१-२-३ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy