________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
कृतात्ययाधिकरणम्.
- २०१
तेः – उत्तरत्र १' अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति" इत्यादौ दृष्टादिकारिणां जीवानां द्युलोकादिगमनपुनरावृत्तिप्रकारवचने लोकाग्निसम्बद्धस्याच्छब्दवाच्यस्य सोममापन्नस्य प्रत्यभिज्ञानादत्राप इति तत्संयुक्तो जीव एवोच्यते ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१" आकाशाचन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति " इति धूमादिना गतस्य देवैर्भक्ष्यमाणत्वश्रवणात्, जीवस्याऽनदनीयत्वाश्च न जीवस्तत्रोक्त इत्याशङ्कयाह
भाक्तं वाऽनात्मवित्त्वात्तथाहि दर्शयति । वाशब्दश्शङ्काव्यावृत्त्य - र्थः । १" तं देवा भक्षयन्ति " इति भक्ष्यत्ववचनं भाक्तम् — केवलेष्टादिकारिणामनात्मवित्त्वादेवोपकरणत्वाभिप्रायम् । अनात्मविदः केवलेन्द्रादिदेवयाजिनो हि देवान्प्राप्य तदुपकरणं भवन्ति । तथा हि दर्शयति श्रुतिः २"यथा पशुरेवं स देवानाम्” इति । अतो भूतसूक्ष्मैस्सम्परिष्वक्तो जीवो रंहति ॥ ७ ॥ इति वेदान्तदीपे तदन्तरप्रतिपत्त्यधिकरणम् ॥ १॥
(श्रीशारीरकमीमांसाभाष्ये कृतात्ययाधिकरणम् ॥ २ ॥ ) -
कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च । ३।१।८ ॥
केवलेष्टापूर्तदत्तकारिणां धूमादिना पिठ्याणेन पथा गमनं कर्मफलावसाने पुनरावर्तनं चानातं १" यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते" इति । तत्र प्रत्यवरोहन् जीवः किमनुशयवान् प्रत्यवरोहति, उत नेति संशय्यते । किं युक्तम् ? कर्मणः कृत्स्नस्योपभुक्तत्वात् नानुशयवानिति प्राप्तम् । अनुशयो ह्युपभुक्तशिष्टं कर्म । तच्च कृत्स्नफलपभोगे सति नावशिष्यते । १ " यावत्सम्पातमुषित्वा " इति वचनात् कृत्स्त्रोपभोगश्च ज्ञायते । सम्पतन्त्यनेन स्वर्ग लोकमिति सम्पातः कर्मोच्यते । श्रुत्यन्तरं च
१. छा. ५-१०-३, ४, ५ ॥ - २. बृ. ३-४-१० ॥
*26
For Private And Personal Use Only