________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२००
वेदान्तदीपे
[म. ३०
हः प्रस्तुतस्तच्छब्देन परामृश्यते ; देहान्तरप्रतिपत्तौ । रंहति सम्परिष्वक्तःजीवो भूतसूक्ष्मै सम्परिष्वक्तो गच्छति । कुतः ; प्रश्ननिरूपणाभ्यां - पञ्चा ग्निविद्यान्तर्गतप्रश्नप्रतिवचनाभ्यां तथाऽवगम्यत इत्यर्थः ॥ १ ॥
कथमविशेषेणाप्छब्देन सर्वेषामभिधानमित्याशङ्कयाह
Acharya Shri Kailassagarsuri Gyanmandir
व्यात्मकत्वात्तु भूयस्त्वात् ।। तुशब्दश्शङ्कानिवृत्यर्थः । अपां त्रित्करणेन व्यात्मकत्वादाप इति भूतान्तरसंसृष्टा आपोऽभिधीयन्ते, अपां भूमस्त्वात् आधिक्यादच्छब्देनाभिधानम् ॥ २ ॥
प्राणगतेश्व ॥ इतश्च भूतसूक्ष्मैस्संयुक्तो याति । १" तमुत्क्रामन्तं प्राitsनूत्क्रामति प्राणमनुत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति " इति प्राणानाम्इन्द्रियाणां जीवेन सह गमनश्रुतेः इन्द्रियाणां देहाश्रयत्वेन देहोऽपि भूतसूक्ष्मरूपेण गच्छतीति गम्यते । स्मर्यते च २" मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थानिकर्षति " इत्यादिना ॥ ३॥
अग्नयादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ३" यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यम्" इति मरणवेलायां वागादीनाममयादिष्वप्ययश्रुतेर्जीवेन सह गमनश्रुतिरन्यथा नेयेतिचेत्; तन, भाक्तत्वात् तत्र वागादिशब्दानाम् । वागाद्यभिमानिदेवतासु हि तत्र वागादयश्शब्दाः । ३" ओषधीर्लोमानि वनस्पतीन्केशाः" इत्यनपियद्भिर्लोमादिभिस्सहपाठात् ॥४॥ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ प्रथमे — धुलोकानिहोमे अपामश्रवणात् आपो भूतान्तरसंसृष्टा गच्छन्तीति वक्तुं न शक्यते ; तत्र हि ४' तस्मिन्नेतस्मिन्नग्नौ देवाश्श्रद्धां जुह्वति" इति श्रद्धैव होम्यत्वेन भूयत इति चेत् न, ताः आप एव हि श्रद्धाशब्देनोच्यन्ते, प्रतिवचनस्य प्र श्रानुगुण्योपपत्तेः । ५ " वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इत्यप पुरुषवचस्त्वप्रकारे पृष्ठे स एव हि प्रतिवक्तव्यः ; अतरश्रद्धाशब्देन ता आप एवोच्यन्ते । ६" श्रद्धा वा आपः" इति हि श्रूयते ॥ ५ ॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ।। ५ " आपः पुरुषवचसो भवन्ति " ४" श्रद्धां जुह्वति" इति द्युलोकादिष्वाप एव हि गच्छन्तीति श्रूयते ; न तत्परिष्वक्तो जीवः । अतः प्रश्नप्रतिवचनयोर्जीवस्याश्रुतत्वात्तत्संयुतो जीवो गच्छतीति न शक्यते वक्तुमिति चेत्-तन्त्र, इष्टादिकारिणां प्रतीते:
१. बृ. ६-४-२ ॥—२. गी. १५-७॥३. बृ. ५-२-१३॥ - ४, छा. ५-४-२ ॥ -५. छा. ५-३-३ ॥ - ६. ३ - अष्ट. २-४-३३ ॥
For Private And Personal Use Only