SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] तदन्तरप्रतिपत्त्यधिकरणम् १९९ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ प्रथमे-घुलोकेऽपामश्रषणात् नापो गच्छन्ति ; १"एतस्मिनग्नौ देवाश्श्रद्धां जुह्वति" इति श्रद्धव श्रुतेति चेत्न, आप एव श्रद्धाशब्देनोच्यन्ते-इस्यप्सु पृष्टासु तदुत्तरत्वोपपत्तेर्गम्यते ; २"श्रद्धा वा आपः" इति श्रूयते ॥५॥ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः॥ अत्र प्रश्नप्रतिवचनयोराप एव प्रतीयन्ते ; न तत्परिष्वक्तो जीव इति चेत्–न, उत्तरत्र ३'अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते" इत्यादाविष्टादिकारिणां गमनप्रकारव. चनात् । धुलोकाग्निसम्बन्ध्यप्छब्दवाच्यस्य १"तस्या आहुतेस्सोमो राजा स. म्भवति" इति सोमभूतस्यैव ३ "सोमो राजा" इति प्रत्यभिज्ञानादद्भिः परि. म्वक्तस्तच्छरीरक एव आप इत्युच्यते इत्यवगम्यते ॥ ६॥ भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ३"एष सोमो राजा... तन्देवा भक्षयन्ति" इति सोमापनस्य देवैर्भक्ष्यमाणत्ववचनं, भाक्तम्- अनात्मवित्त्वेन देवोपकरणत्वाभिप्रायम् । तथा हि दर्शयति श्रुतिः। ४"यथा प. शुरेवं स देवानाम्" इति पशुवदेवोपकरणत्वन्दर्शयति । तथात्मविदामनात्मविदाश्च परमपुरुषोपकरणत्वं देवोपकरणत्वञ्च स्मर्यते ५"देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि" इति ॥ ७॥ इति वेदान्तसारे तदन्तरप्रतिपत्त्यधिकरणम् ॥ १ ॥ वेदान्तदीपे-तदन्तरपतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ देही देहान्तरगमने देहकारणभूतैर्भूतसूक्ष्मैस्संयुक्तो गच्छति, नेति संसयः । न संयुक्तो गच्छतीति पूर्वः पक्षः, देहारम्भाय तत्रतत्र भूतसूक्ष्माणां सुलभत्वात् । राधान्तस्तु-पञ्चाग्निविद्यायां ६ 'वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” ७'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति प्रश्नप्रतिवचने आनायेते । देहारम्भिका आपत्रिवृत्करणेन भूतान्तरसंसृष्टाः धुलोकपर्जन्यपृथिवीपुरुषरूपाग्निषु जीवेन सह प्रविष्टाः पञ्चम्यामाहुतौ योषिदग्निप्रवेशवेलायां पुरुषशब्दाभिलपनीया भवन्तीति प्रतीयते; पुरुषाकारतां भजन्त इत्यर्थः । अतो भूतसूक्ष्मैस्सम्परिष्वक्त एव गच्छती. ति।सूत्रार्थस्तु-तदन्तरप्रतिपत्तौ-८"संज्ञामूर्तिकृप्तिः' इत्यत्र मूर्तिशब्देन दे १. छा. ५-४-२॥-२. ३. अष्ट. २-४ ३३ ॥-३ छा. ५-१०, ३, ४॥४॥-५. गी. ७-२३॥-६.छा. ५-३-३॥ ७.छा.५-९-१॥---८. शारी.२-४-१७॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy