________________
Shri Mahavir Jain Aradhana Kendra
२१०
www.kobatirth.org
वेदान्तदीपे
अ. ३.
स्मर्यतेऽपि च लोके ॥ लोके च द्रौपद्यादीनां पुण्यकर्मणामपि पञ्चमाहुत्यनपेक्ष देहारम्भस्स्मर्यते ॥ १९ ॥
इत्यर्थः ॥ २१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनाच्च ॥ तथा श्रुतावपि दृश्यते १ " भूतानां त्रीण्येव बीजानि भवन्ति आण्डजं जीवजमुद्भिजम्" इति स्वेदजोद्भिज्जयोस्तदनपेक्षत्वम् ॥ २० ॥ तृतीयशब्दावरोधस्संशोकजस्य || स्वेदजस्य उद्भिजशब्देन सङ्ग्रह
इति वेदान्तसारे अनिष्टादिकार्यधिकरणम् ॥ ३ ॥
वेदान्तदीपे - अनिष्टादिकारिणामपि च श्रुतम् ॥ विहिताकरणप्रतिषिद्धसेवारताः पापकर्माणोऽपि धूमादिना चन्द्रमसं गत्वा निवर्तन्ते, उत नेति संशयः । गत्वैव निवर्तन्त इति पूर्वः पक्षः, २" ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति” इति सर्वेषामविशेषेण चन्द्रगमनश्रुतेः । रा द्धान्तस्तु - ३ 'अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति" इति धूमादिना चन्द्रगमनस्य पुण्यकर्मफलत्वश्रवणात् तद्रहिताः पापकर्माणो न गच्छन्ति — इति । २" येवैकेच" इति वचनं सर्वेषां पुण्यकर्मणां चन्द्रगमनविषयम् । सूत्रार्थस्तु - अनिष्टादिकारिणामपिच श्रुतम् - अनिष्टादिकारिणामपि इष्टापूर्ताद्यकुर्वतां पापिनामपि चन्द्रगमनमस्ति, २ "ये वै केचास्माल्लोकात्प्रयन्ति” इति यतोऽविशेषेण श्रुतम् ॥ १२ ॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ इयांस्तु विशेषः, संयमने- यमशासने पापफलमनुभूय इतरेषां पापिनां चन्द्रारोहावरोहा ; कुतः ? तद्वतिदर्शनात् पापिनां यमसदनगतिदर्शनात् ४'' वैवस्वतं सङ्गमनं जनानाम्" इत्यादौ ॥ १३ ॥
स्मरन्ति च ॥ ५" सर्वै चैते वशं यान्ति यमस्य भगवन्किल" इति पराशरादयस्स्मरन्ति च ॥ १४ ॥
अपि सप्त || सप्तापि रौरवादयो लोकाः पापिनां गन्तव्यत्वेन स्मर्यन्ते ॥ १५ ॥
१ छा. ६-३-१ ॥―२. कौषी. १. अ. २॥ -- ३. डा. ५-१०-३॥ - ४. आरण. २. प्र. १. प ॥ ५. वि. पु. ३-७-५ ॥
For Private And Personal Use Only