________________
Shri Mahavir Jain Aradhana Kendra
१९६
www.kobatirth.org
श्रीशारीरकमीमांसाभाग्ये
Acharya Shri Kailassagarsuri Gyanmandir
[म.
प्ययश्रुतिरधिष्ठातृदेवतापक्रमणपरा ॥ ४ ॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः॥३॥१॥५॥
46
यदुक्तमद्भिस्सूक्ष्माभिर्भूतान्तरसंसृष्टाभिः परिष्वक्तो जीवो गच्छतीति प्रश्नप्रतिवचनाभ्यामवगम्यत इति; तनोपपद्यते, द्युलोकाग्निविषये प्रथमे होमे अपां होम्यत्वाश्रवणात् । २" तस्मिन्नेतस्मिन्ननौ देवाः भदां हति" इति श्रद्धैव होम्यत्वेन श्रुता । श्रद्धा नाम जीवस्य मनो - चिविशेषत्वेन प्रसिद्धा । अतो नापस्तत्र होम्या इति चेत् न, यतः ताः - आप एव श्रद्धाशब्देन तत्राभिधीयन्तेः कुतः प्रश्नमतिवचनोपपत्तेः । २ “ वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति " इतिप्रश्नस्य प्रतिवचनोपक्रमे हि श्रद्धा द्युलोकाग्नौ होम्यत्वेन श्रुता ; तत्र यदि श्रद्धाशब्देनापो नोच्येरन् ततोऽन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्यसङ्गतं स्यात् । ३ " इति तु पञ्चम्यामाहुतावापः पुरुषवचसः" इति प्रतिवचननिगमनं च श्रद्धाया अप्त्वमेव सूचयति । २" वेत्थ यथा" इति हि प्रश्नगतः प्रकारः ३" इति तु पञ्चम्याम् " इतीतिशब्देन परिहारे निगम्यते श्रद्धा सोमराजवर्षान्नरेतोगर्भरूपेणापां परिणाममुक्त्वा ह्येवमापः पुरुषवचस इति निगम्यते । श्रद्धाशब्दस्य चाप्सु वैदिकप्रयोगो दृश्यते - ४ " अपः प्रणयति श्रद्धा वा आपः " इति । १" श्रद्धां जुह्वति तस्या आहुतेस्सोमो राजा सम्भवति" इति सोमाकारेण परिणामश्चापामेवोपपद्यते । अतो भूतान्तरसंसृष्टाभिरद्भिस्सम्परिष्वक्तो जीवो रंहतीत्युपपन्नम् ॥ ५ ॥
1
For Private And Personal Use Only
अश्रुतत्वादितिचेन्नेष्टादिकारिणां प्रतीतेः॥३॥१६॥
यत्पुनरुक्तमद्भिस्संपरिष्वक्तो जीवो यातीत्ययमर्थ एतस्माद्वाक्यादवगम्यत इति; तन्नोपपद्यते, अस्मिन्वाक्ये जीवस्याश्रवणात् । अत्र हि
डा. ५-४-२ ॥ २. छा. ५-३-३ ॥ - ३. छा. ५-९-१ ॥ - ४. ३. अ. २-४-३३ ॥