________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १
तदन्तरप्रतिपत्त्यधिकरणम् . ननु "आपः पुरुषवचसः" इत्युक्ते अपां पुरुषाकारबरिणामप्रतीतेर्गच्छता जीवेन तासामेव परिष्वङ्गः प्रतीयते; अतः कथं सर्वेषां भूतसूक्ष्माणां परिष्वङ्ग इति । तत्राह
त्रयात्मकत्वात्तु भूयस्त्वात् । ३।१॥२॥
तुशब्दश्वोधं व्यावर्तयति । देहारम्भकाणामपां केवलानां न देहारम्भसम्भवः । देहाघारम्भाय हि २ "तासां त्रिवृतंत्रिवृतमेकैकामकरोत्" इति त्रिवृत्करणम् । केवलानामपां श्रवणं तु तासां भूयस्त्वात् । देहे च लोहितादिभूयस्त्वेनारम्भकेष्वपां भूयस्त्वं गम्यते ॥ २॥
प्राणगतेश्च । ३॥ १॥३॥ इतश्च भूतसूक्ष्मपरिष्वक्तस्य गमनमिति गम्यते । उत्कामति जीवे प्राणानां तदनुगतिश्श्रूयते-३“तमुत्क्रामन्तं प्राणोऽभूत्तामति प्राणमनूकामन्तं सर्वे प्राणा अनूत्कामन्ति" इति। स्मयते च-४"मनष्षष्ठानीन्द्रिया णि प्रकृतिस्थानि कर्षति । शरीरं यदवानोति यच्चाप्युत्कामतीश्वरः गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्" इति । नच निराश्रयाणां गतिरुपपद्यत इति तदाश्रयभूतानां भूतसूक्ष्माणामपि गतिरभ्युपगन्तव्या ॥३॥ अग्नयादिगतिश्रुतेरिति चन्न भाक्तत्वात् ।३।१॥४॥
___५“यत्रास्य पुरुषस्य मृतस्याग्निं वागप्यति, वातं प्राणश्चक्षुरादित्यम्" इत्यादिना प्राणानां जीवमरणकाले अनयादिष्वप्ययश्रवणान्न तेषां जीवेन सह गमनमिति गतिश्रुतिरन्यथा नेयेतिचेत्-न, भाक्तत्वात् अनयादिष्वप्ययश्रवणस्य । कथं भाक्तत्वम् ? ५“ओषधीोमानि वनस्पतीन् केशाः" इत्यनपियद्भिर्लोमादिभिस्सह श्रवणात् । अतश्चक्षुराद्य
१, छा. ५-९-१॥-२. डा. ६-३-३॥-३. . ६-४-२ ॥४. नी. १५-७॥ ५. १. ५-२-१३॥
For Private And Personal Use Only