________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीशारीरकमीमांसाभाष्ये
Acharya Shri Kailassagarsuri Gyanmandir
१९४
[अ. ३.
वक्तो यातीति प्राप्तम् | पश्चादपि पूर्वपक्षबीजान्युपन्यस्य निरसिष्यति ।। -• ( सिद्धान्तः )-~~
"
तत्र सिद्धान्तमाह - तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः —–— इति । १" संज्ञामूर्तिकृप्तिः" इति मूर्तिशब्देन देहः प्रस्तुतः स तच्छब्देन परामृश्यते । तदन्तरप्रतिपत्तौ - देहान्तरगमने भूतसूक्ष्मैस्सम्परिष्वक्तो जीवो रंहति - गच्छतीत्यर्थः । कुतः प्रश्ननिरूपणाभ्यां - प्रश्नप्रतिवचनाभ्याम् । पञ्चाग्निविद्यायामेवं प्रश्नप्रतिवचने आम्नायेते श्वेतकेतुं किलारुणेयं पावालः प्रवाहणः कर्मिणां गन्तव्यदेशं, पुनरावृत्तिप्रकारं देवयानपितृयाणपथव्यावर्तने, अमुष्य लोकस्याप्राप्तारं च वेत्थेति पृष्ठेदमपि पप्रच्छ - २" वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति " इति । तत इमं पश्चिमं प्रश्नं प्रतिब्रुवंश्च द्युलोकमग्नित्वेन रूपयित्वा ३" तस्मि - नेतस्मिन्ननौ देवाः श्रद्धां जुह्वति तस्या आहुतेस्सोमो राजा सम्भवति " इत्यादिना - देवाख्याः जीवस्य प्राणाः अग्नित्वेन रूपिते द्युलोके श्रद्धाख्यं वस्तु प्रक्षिपन्ति सा च श्रद्धा सोमराजाख्यामृतमयदेहरूपेण प रिणमते ; तं चामृतमयं देहं त एव प्राणाः पर्जन्येऽनित्वेन रूपिते प्रक्षिपन्ति; स च देहस्तत्र प्रक्षिप्तो वर्षे भवति ; तच्च वर्षे त एव प्राणाः पृथिव्यामग्नित्वरूपितायां प्रक्षिपन्ति ; तच्च तत्र प्रक्षिप्तमन्नं भवति तचान्नं त एव पुरुषेऽग्नित्वरूपिते प्रक्षिपन्ति ; तच्च तत्र रेतो भवति ; तचत एव योषायामनित्वरूपितायां प्रक्षिपन्ति ; तच्च तत्र प्रक्षिप्तं गर्भो भवतीत्युक्त्वा आह— ४ " इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इति । एवं पञ्चम्यामाहुतौ हुतायामापः पुरुषशब्दाभिलप्या भवन्तीत्यर्थः । एवमुक्ते पूर्वास्वप्याहुतिष्वनुवर्तमानानामेवापां सूक्ष्मरूपाणामिदानीं पुरुषाकारत्वं भवतीत्युक्तं भवति । अत एवं प्रश्नप्रतिवचनाभ्यां देहहेतुभूतैर्भूतसूक्ष्मैस्सह तत्रतत्न यातीति गम्यते ॥ १ ॥
१. शारी. २-४-१७ ॥ २. छा. ५-३-३ ॥ ३. छा. ५-४-२ ॥४. छा. ५-९-१॥
For Private And Personal Use Only