________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १. तदन्तरप्रतिपस्वधिकरणम् भदादय एवाम्बवस्थाविशेषा होम्यत्वेन भुताः न तु जीवस्तत्परिष्वक्त इतिचेत्-तन्न, इष्टादिकारिणां प्रतीतेः-अस्मिन्नेव वाक्ये धुत्तरत्न ब्रह्मज्ञानविधुरेष्टापूर्तदत्तकारिणो धुलोकं प्राप्य सोमराजानो भवन्तिः पुण्यकावसाने च पुनरागत्य गर्भ प्राप्नुवन्तीत्युच्यते १“अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति" इत्यारभ्य १"पितृलोकादाकाशमाकाशाचन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति" १"तस्मिन्यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते"१ “योयो ह्यअमत्ति यो रेतस्सिश्चति तद्भूय एव भवति" इति । अत्रापि धुलोकानौ २"श्रद्धा जुइति तस्या आहुतेस्सोमो राजा सम्भवति" इति तदेकार्थत्वाच्छ्रद्धावस्थदेहविशिष्टस्सोमरूपदेहविशिष्टो भवतीत्युक्तमिति गम्यते । देहस्य जीवविशेषणतकस्वरूपस्य वाचकः शब्दो विशेष्ये जीव एव पर्यवस्यति । अतस्सम्परिष्वक्तो जीवो यातीत्युपपद्यते ॥ ६॥
ननुच १"तं देवा भक्षयन्ति" इति देवैर्भक्ष्यमाणत्ववचनात् १"सोमो राजा"इति न जीव उच्यते, जीवस्यानदनीयत्वात् । तत्राह
भाक्तं वानात्मवित्वात्तथाहि दर्शयति।३।१॥७॥ ___ वाशब्दश्वोधं व्यावर्तयति । इष्टादिकारिणोऽनात्मवित्त्वात्स देवानां भोगोपकरणत्वेनेहामुल च वर्तते। इहेष्टादिना तदाराधनं कुर्वनुपकरोति । आराधनप्रीतैर्देवैईत्तममुं लोकं प्राप्य तत्र तत्समानभोगस्तदुपकरणंभवति। ३ “यथा पशुरेवं स देवानाम्" इत्यनात्मविदो देवानामुपकरणत्वं दर्शयति श्रुतिः। स्मृतिरप्यात्मविदां ब्रह्मप्राप्तिमनात्मविदां च देवभोग्यत्वं दर्शयति ४ "देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि" इति । अतो जीवस्य देवानां भोगोपकरणत्वाभिप्रायमन्नत्वेन भक्ष्यत्ववचनम् । अतस्तद्भाक्तम् । तेन तृप्तिरेव च देवानां भक्षणमिति श्रूयते ५" न वै देवा अश्नन्ति न पिब
१. छा. ५-१०-३,४,५,६, ॥-- २. छा, ५-४-२ ॥- ३. १. ३-४.१० ॥४. गी. ७-२३ ॥--५. छा. ३-६-१॥
For Private And Personal Use Only