________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त्राह
१९०
वेदान्तदीपे
[अ. २.
१ 'अन्नमयं हि सोम्य मनः" इति मनसो भौमत्वञ्च विरुध्यते । तथेतरवोरतेजसोः त्रैविध्यं विरुध्यते । तदिदमाह - मांसादि भौमं यथाशब्दमितरवोश्धइति । पुरीषवन्मांसमनसी अपि भौमे इतीहोच्यते । तथा मूत्रवल्लोहितप्राणाatercol; तथा अस्थिवन्मज्जावाची तेजस्यौ ॥ १८ ॥
पूर्वमेव त्रिवृत्कृतं चेत् — श्यात्मकं वस्तु कथमनमापस्तेज इत्युच्यते इत्यवैशेष्यात्तु तद्वादस्तद्वादः || अन्नादिभूयस्त्वेन वैशेष्यादन्नादिवादः ॥ इति वेदान्तसारे संज्ञामूर्तिप्त्यधिकरणम् ॥ ८ ॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे द्वितीयस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥
समाप्तश्चाध्यायः ॥
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्वदीपे – संज्ञामूर्तिकृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् । किं प्रपश्रव्यष्टिसृष्टिः जीवभूतचतुर्मुखात्, उत तच्छरीरकात्परमात्मन एवेति संशयः। केवलाचतुर्मुखादिति पूर्वः पक्षः, २" अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति व्यतिरेकश्रुतेः । जीवस्य परमात्मांशत्वेन व्याकरवाणीत्युत्तमपुरुषनिर्देशोऽपि कथञ्चिदुपपद्यते । राद्धान्तस्तु -- २" नामरूपे व्याकरवाणि तासां त्रिवृतंत्रिवृतमेकैकां करवाणि " इति त्रिवृत्करणं कुर्वत एव नामरूपव्याक्रियोपदेशात्परमात्मन एव नामरूपव्याकरणरूपव्यष्टिसृष्टिः । त्रिवृत्करणं तु न चतुर्मुखेन कर्तुं शक्यम्, अण्डसृष्ट्यत्तरकालभावित्वाश्चतुर्मुखोत्पत्तेः, त्रिवृत्कृतैरेव तेजोबन्नैरण्डसृष्टिसम्भवाश्च । ३" तदण्डमभवद्वैमं सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः " इतिहि स्मर्यते । ४' "नानावीर्याः पृथग्भूतास्ततस्ते संहति विना । नाशक्नुवन् प्रजास्त्रष्टुमसमागम्य कृत्स्नशः ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते" इति । अतश्चतुर्मुखशरीरकात्परमात्मन एव व्यष्टिसृष्टिः । एवं सति व्याकरवाणीत्युत्तमपुरुषनिर्देशस्समञ्जसः । २"अनेन जीवेन” इतिव्यतिरेकनिर्देशोऽपि जीवशरीरकेणात्मनेत्यन्वयात्समञ्जसः । जीवशब्दस्तेजःप्रभृतिशग्दवज्जीवशरीरकब्रह्मवाचीति ह्युक्तम्। "अनेन जीवेनात्मना ” इति सामानाधिकरण्या मुख्यम् ; २" अनुप्रविश्य नामरूपे व्याकरवाणि " इति समानकर्तृ१. छा. ६-५-४॥—२. छा. ६-३-२ ॥ - ३. मनु. १ ९ ॥ - ४. वि. पु. १-२-५२, ५३ ॥
For Private And Personal Use Only