SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] संबामूर्तिकृतयधिकरणम् . कस्पनिर्देशश्च। सूत्रार्थस्तु-संज्ञामूर्तिकृप्तिस्तु-तुशब्दश्शङ्काव्यावृत्त्यर्थः।नामरूपकृप्तिः परमात्मन एव; कुतः त्रिवृत्कुर्वत उपदेशात्-त्रिवृत्करण कुर्वत एव मामरूपव्याकरणोपदेशात् । त्रिवृत्करणन्तु परमात्मन एव कर्मत्युक्तम् ॥१७॥ १"अन्नमशितं त्रेधा विधीयते" इत्यादिना चतुर्मुखसृष्टवस्तुषु त्रिवृ. करणप्रकारो खुपदिश्यते ; अतश्चतुर्मुखेन केवलेन तच्छक्यमित्याशङ्कयाह मांसादि भौमं यथाशन्दमितरयोश्च ॥ २"तासां त्रिवृतंत्रिवृतमेककां करवाणि" इति निर्दिष्टं त्रिवृत्करणम् १"अन्नमशितं त्रेधा विधीयते" इ. स्यादिना नोपदिश्यते; १"तस्य यस्स्थविष्ठो धातुस्तत्पुरीषं यो मध्यमस्तन्मांसं गोऽणिष्ठस्सन्मनः" इति मांसाद्यपि हि भौममेवोपदिश्यते। १"अनमशितं . धा" इति प्रक्रमात्, १“अन्नमयं हि सोम्य मनः" इति वाक्यशेषाच । तेजोबनानां त्रिवृत्करणप्रकारे ह्यपदिश्यमाने मांसमनसोः पुरीषाद्भौमादणीयस्त्वेनाप्यत्वं तैजसत्वं च प्रसज्यते । तथेतरयोरप्यप्तेजःपर्याययोः १"आपः पीता" १"तेजोऽशितम्" इति प्रयाणां त्रयाणां भागानां यथाशब्दमाप्यत्वं तैजसत्वमेवोपदिश्यते । तत्रापि हि १"आपः पीताः" १“तेजोऽशितम्" इत्युपक्रमः ; वाक्यशेषश्च १"आपोमयः प्राणः तेजोमयी वाक्इति । प्रागुक्तत्रिवृत्करणप्रकारे हि मूत्रप्राणयोस्स्थविष्ठत्वाणीयस्त्वाभ्यां भौमत्वतैजसत्वप्रसक्तिः । "१तेजोऽशितम्"इस्यत्रापि पूर्वयोर्भीमत्वाप्यत्वप्रसक्तिः। अतोऽत्र प्रागेव त्रिवृ. स्कृतस्यानादेस्वस्यैव त्रेधा परिणाम उपदिश्यते ॥१८॥ प्रागेव त्रिवृत्कृतं चेत्-कथं केवलानादिशब्दैरुच्यते ? इत्यत्राह वैशेष्यातु तद्वादस्तद्वादः॥ वैशेष्यं विशेषभावः । त्रिवृत्कृतेप्येकैकस्मिस्तत्रतत्रान्नाद्याधिक्यरूपविशेषभावादनादिवादः । द्विरुक्तिरभ्यायपरिसमाप्तिद्योतनार्था ॥ १९॥ इति वेदान्तदीपे संज्ञामूर्तिकुप्यधिकरणम् ॥ ८॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे द्वितीयस्याध्यायस्य चतुर्थः पादः॥४॥ समाप्तश्चाध्यायः॥ १. छा. ६-५-१, २, ३,४॥-२. छा. ६-३-३ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy