________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ४. ]
संज्ञामूर्तिकृतद्यधिकरणम् •
१८९
र्यक्रमेण बाध्यते । अण्डान्तर्वर्तिष्वग्न्यादित्यादिषु त्रिवृत्करणप्रदर्शनं त केतोश्शुश्रूषोरण्डान्तर्वर्तित्वेन तस्य बहिष्ठवस्तुषु विद्युत्करणप्रदर्शनायो. गाभिवृत्कृतानां कार्येषु अग्न्यादित्यादिषु क्रियते ॥ १८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१
स्यादेतत् ; १" अन्नमशितम् " १" आपः पीताः ", "तेजोऽशितम्" इति त्रिवृत्कृतानामन्नादीनामेकैकस्य तेजोबन्नात्मकत्वेन त्रिरूपस्य कथमममापस्तेज इत्येकैकरूपेण व्यपदेश उपपद्यत इति तत्राह
-
वैशेष्यात्तु तद्वादस्तद्वादः । २।४।१९ ॥
वैशेष्यं विशेषभावः । त्रिवृत्करणेन विरूपेऽप्येकैकस्मिन्नन्नायाधिक्यात्तत्त्रतत्त्राभादिवादः । द्विरुक्तिरध्यायसमाप्तिं द्योतयति ॥ १९ ॥ इति श्रीशारीरकमीमांसाभाष्ये संज्ञामूर्ति कृप्तयधिकरणम् ॥ ३ ॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥
समाप्तश्वाध्यायः ॥
वेदान्तसारे-संज्ञामूर्ति कृप्तिस्तु विवृत्कुर्वत उपदेशात् । देवादिनामरूपव्यष्टिसृष्टिः चतुर्मुखशरीरकात् परमात्मन एव; न केवलचतुर्मुखात् । "नामरूपे व्याकरवाणि तासां त्रिवृतंत्रिवृतमेकैकां करवाणि" इति त्रिवृत्करणं कुर्वतो नामरूपव्याकरणोपदेशात् । त्रिवृत्करणन्तु केवलचतुर्मुखस्य न सम्भवति ; त्रिवृत्कृतैस्तेजोबन्नैरण्डमुत्पाद्य पश्चाच्चतुर्मुखसृष्टिः, २" तदण्डमभव. तस्मिञ्जने स्वयं ब्रह्मा" इत्यादिस्मृतेः ॥ १७॥
मांसादि भौमं यथाशब्दमितरयोश्च ।। १" अन्नमशितं श्रेधा विधीयते " इत्यत्र प्रागुक्तत्रिवृत्करणादर्थान्तभूरतः अण्डान्तर्वर्तिपुरुषभुक्तान्नादीनां परिणामप्रकार उच्यते । अन्यथा मांसमनसोः पुरीषादणीयस्त्वेनाप्यत्वतैजसत्वप्रसक्तिः । तथा सति १ " अन्नमशितं त्रेधा" इति भूमेरेव त्रिधात्वोपक्रमः,
१. छा. ६-५-१, २, ३ ॥ - २. मनुः १-९ ॥
For Private And Personal Use Only