SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसामान्ये णुत्वेनाणीयस्त्वेन च व्यपदिष्टयोः कारणानुविधायित्वेनाप्यतैजसत्वनसनात् , “ आपः पीताः" इत्यत्रापि मूत्रमाणयोः स्थविष्ठाणीयसोः पार्थिवत्वतैजसत्वप्रसङ्गाच। नचैवमिष्यते मांसादि भौममिष्यते-पुरीपवन्मांसमनसी अपि भौमे-पार्थिवे इष्यते १" अन्नमशितं त्रेधा" इति प्रक्रमात् । यथाशब्दमितरयोश्च-इतरयोरपि १"आपः पीताः" ,"तेजोऽशितम्" इति पर्याययोर्यथाशब्दं विकारा इष्यन्ते । १" आपः पीतावेधा विधीयन्ते" इत्यपामेव त्रेधा परिणामः शब्दालतीयते तथा?"तेजोऽशितं त्रेधा विधीयते" इत्यपि तेजस एव वेधा परिणामः शन्दात्पतीयते ; अतः पुरीषमांसमनांसि पृथिवीविकाराः, मूत्रलोहितपाणाः अधिकाराः, अस्थिमजावाचस्तेजोविकारा इति प्रतिपत्तव्यम् । १"अममयं हि सोम्य मनः, आपोमयः प्राणस्तेजोमयी वाक्" इति वाक्यशेपाविरोधाच । अतः २ "तासां त्रिवृतंत्रिवृतमेकैकामकरोत्" इत्युक्तत्रिवृत्करणप्रकारः १"अन्नमशितम्" इत्यादिना न प्रदश्यते; तथा सति मनामाणवाचा त्रयाणामप्यणीयस्त्वेन तैजसत्वात् १"अनमयं हि सोम्य मनः" इत्यादिविरुध्येत । प्रागेव त्रिसत्कृतानां पृथिव्यादीनां पुरुषं मासानाम् १"अन्नमशितम्" इत्यादिनैकैकस्य वेधा परिणाम उच्यते । अण्डसृष्टेः प्रागेव च तेजोबनानां त्रिवृत्करणेन भवितव्यम् , अत्रिवृत्कतानां तेषां कार्यारम्भासामर्थ्यात् । अन्योन्यसंयुक्तानामेव हि कार्यारम्भसामर्थ्यम् । तदेव च नित्करणम् । तथा च स्मयते ३ "नानावीर्याः पृथग्भूतास्ततस्ते संहति विना । नाशक्नुवन् प्रजास्स्रष्टुमसमागम्य कृत्नशाः॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्तासण्डमुत्पादयन्ति ते"इति । अत एव च २“अनेन जीवेनाऽत्मनाऽनुपविश्य नामरूपे व्याकरोत् तासां नितंत्रिवृतमेकैकामकरोत्" इति पाठक्रमोऽ १.ग. ६-५-२, १, ३, ४ ॥-२. डा. ६-३-४ ॥--३. वि. पु. १-२-५२,५३ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy