________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७
पा. ४.] संसामूर्तिकृत्तयधिकरणम् . णः कर्म देवादिविचित्रसृष्टिरिति चतुर्मुखकर्तृकसृष्टिप्रकरणे नामरूपन्याक्रियोपदेशश्चोपपद्यते । अतः १ सेयं देवता" इत्यादिवाक्यस्यायमर्थःइमा:-तेजोऽबनरूपास्तिस्रो देवताः अनेन जीवेन-जीवसमष्टिविशिष्टेनाऽत्मनाऽनुपविश्य नामरूपे व्याकरवाणि-देवादिविचित्रसृष्टितन्नामधेयानि च करवाणि । तदर्थमन्योन्यसंसर्गमप्राप्तानामेषां तेजोबनानां विशेपसृष्टयसमर्थानां तत्सामर्थ्यायैकैकां त्रिवृतंत्रिवृतं करवाणि-इति । अतः परस्यैव ब्रह्मणः कर्मेदं नामरूपव्याकरणम् ॥ १७॥
___ अथ स्यात् नामरूपव्याकरणस्य त्रिवृत्करणेनैकककत्वात्परमास्मकर्तृकमिति न शक्यते वक्तुम् , त्रिवृत्करणस्यापि जीवकर्तृकत्वसम्भवात्। अण्डसृष्टयुत्तरकालं हि चतुर्मुखसृष्टजीवेषु त्रिवृत्करणप्रकार उपदिश्यते-२"यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्तिदेकैका भवति तन्मे विजानाहीति" ३"अन्नमशितं वेधा विधीयते तस्य यः स्थविष्ठो भागस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठः तन्मनः" इत्यादिना । तथा पूर्वस्मिन्नपि वाक्ये २“यदग्नेरोहितं रूपं तेजसस्तद्रपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य" इत्यादिना चतुर्मुखसृष्टाग्न्यादित्यचन्द्रविद्युत्सु त्रिवृत्करणं प्रदर्श्यते । नामरूपव्याकरणोत्तरकालं च त्रिवृत्करणं श्रूयते। ४"सेयं देवतेमास्तिस्रो देवताः अनेन जीवेनाऽत्मनाऽनुपविश्य नामरूपे व्याकरोत्तासां त्रिवृतंत्रिवृतमेकैकामकरोत्" इति । तत्राहमांसादि भौमं यथाशब्दमितरयोश्च।२।४।१८॥
यदुक्तमण्डसृष्टयुत्तरकालं चतुर्मुखसृष्टदेवतादिविषयोऽयं "तासां त्रिवृतंत्रिवृतमेकैकामकरोत्" इति त्रिवृत्करणोपदेश इति ; तन्नोपपद्यते, ३" अन्नमशितं त्रेधा विधीयते" इत्यत्र मांसमनसोः पुरीषाद१. छा. ६-३-२॥-२. छा. ६-४-७, १॥-३. छा. ६-५.१॥–४. छा.६-३-३३,४॥
For Private And Personal Use Only