________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
श्रीशारीरकमीमांसाभावे म. २, णि" इत्यादौ। वैलक्षण्यं च चक्षुरादिभ्यः श्रेष्ठप्राणस्योपलभ्यते; सुषुप्तौ हि प्राणस्य वृत्तिरुपलभ्यते, चक्षुरादीनां तु वृत्तिर्नोपलभ्यते । कार्य च चक्षुर्वागादीनां समनस्कानां ज्ञानकर्मसाधनत्वम्। प्राणस्य तु शरीरेन्द्रियधारणम् प्राणाधीनधारणत्वात्त्विन्द्रियेषु प्राणशब्दव्यपदेशः, तथा च श्रुतिः १ "त एतस्यैव सर्वे रूपमभवन तस्मादेत एतेनाख्यायन्ते" इति । रूपमभवन्–शरीरमभवन् , तदधीनप्रवृत्तयोऽभवनित्यर्थः ॥ १६ ॥
इति श्रीशारीरकमीमांसाभाष्ये इन्द्रियाधिकरणम् ।। ७ ॥
वेदान्तसारे-त इन्द्रियाणि तद्यपदेशादन्यत्र श्रेष्ठात् ॥ श्रेष्ठादन्यत्र ये प्राणाः, त इन्द्रियाणि, तेम्वेवेन्द्रियव्यपदेशात् , २ इन्द्रियाणि द. शैका" इत्यादि ॥१५॥
भेदश्रुते_लक्षण्याच॥ ३"एतस्माजायते प्राणो मनस्सर्वेन्द्रियाणि च" इति भेदेनोत्पत्तिश्रुतेः इन्द्रियवृत्त्युपरमेऽपि प्राणवृत्त्यनुपरमवैलक्षण्याच॥१६॥
इति वेदान्तसारे इन्द्रियाधिकरणम् ॥ ७ ॥
वेदान्तदीपे-त इन्द्रियाणि तव्यपदेशादन्यत्र श्रेष्ठात् ॥ किं प्राणशब्दनिर्दिष्टास्सर्व एवेन्द्रियाणि, उत श्रेष्ठव्यतिरिक्ताः प्राणा इति संशयः । सर्व एवेति पूर्वः पक्षः, सर्वेषामविशेषेण प्राणशब्दनिर्देशात् , करणत्वाव। राद्धान्तस्तु--श्रेष्ठव्यतिरिक्ताः प्राणा इन्द्रियाणि, तेम्वेवेन्द्रियशब्दनिर्देशात् । २'इन्द्रियाणि दशैकञ्च' ४'एकादशं मनश्चात्र" इति । एषामपि प्राणशब्द. निर्देशः प्राणाधीनवृत्तित्वेन । तथा च श्रुतिः १ त एतस्यैव सर्वे रुपमभवन्तस्मादेत एतेनाख्यायन्ते” इति । रूपमभवन्–शरीरमभषन् , तदधीनवृत्तयो ऽभवन्नित्यर्थः। सूत्रार्थस्तु-श्रेष्ठादन्यत्र ये प्राणाः, त इन्द्रियाणि, तेम्वेव तयपदेशात्-इन्द्रियव्यपदेशात् ॥ १५ ॥
भेदश्रुतेलक्षण्याच्च-३"एतस्माजायते प्राणो मनस्सर्वेन्द्रियाणि च" १॥-२. गी. १३-५ ॥-३. स. १-१-३ -४. वि. पु. १-२-४७ ॥
For Private And Personal Use Only