________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४. ]
संशामूर्तिकुप्तयधिकरणम्.
१८५
इति समनस्केन्द्रियेभ्यो भेदेन प्राणस्योत्पत्तिश्रुतेः, इन्द्रियेषूपरतेष्वपि प्राणवूसिवैलक्षण्याच्च ॥ १६ ॥
इति वेदान्तदीपे इन्द्रियाधिकरणम् ॥ ७ ॥
( श्रीशारीरकमीमांसाभाष्ये संज्ञामूर्तिकृप्त्यधिकरणम् ॥८॥ ) -
संज्ञामूर्तिकुप्तिस्तु त्रिवृत्कुर्वत उपदेशात् | २|४|१७|
भूतेन्द्रियादीनां समष्टिसृष्टिः, जीवानां कर्तृत्वं च परस्माद्ब्रह्मण इत्युक्तं पुरस्तात् । जीवानां स्वेन्द्रियाधिष्ठानं च परायत्तमिति चानन्तरं स्थिरीकरणाय स्मारितम्। या त्वियं नामरूपव्याकरणात्मिका प्रपश्चव्यटिसृष्टिः, सा किं समष्टिजीवरूपस्य हिरण्यगर्भस्यैव कर्म, उत तेजःप्रभृतिशरीरकस्य परस्याबादिसृष्टिवद्धिरण्यगर्भशरीरकस्य परस्य ब्रह्मण, इतीदानीं चिन्त्यते । किं युक्तम् समष्टिजीवस्येतिः कुतः ? २" अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि " इति जीवकर्तृकत्वश्रवणात् । न हि परा देवता स्वेन रूपेण नामरूपे व्याकरवाणीत्यैक्षतः अपितु स्वांशभूतेन जीवरूपेण, १ " अनेन जीवेनाऽत्मना " इति वचनात् । नन्वेवं चारेणानुप्रविश्य परबलं सङ्कलयानीतिवत् "व्याकरवाणि" इत्युत्तमपुरुषः कर्तृस्थक्रियश्च प्रविशतिर्लाक्षणिकस्स्यात् । नैवम्, तत्र राजचारयोः स्वरूपभेदाल्लाक्षणिकत्वम्, इह तु जीवस्यापि स्वांशत्वेन स्वरूपत्वात्तेन रूपेण प्रवेशो व्याकरणं चात्मन एवेति न लाक्षणिकत्वप्रसङ्गः । नच सहयोगलक्षणेयं तृतीया, कारकविभक्तौ सम्भवन्त्यामुपपदविभक्तेरन्याय्यत्वात् । नच करणे तृतीया, ब्रह्मकर्तृकयोः प्रवेशव्याकरणयोर्जीवस्य साधकतमत्वाभावात् । नच जीवस्य कर्तृत्वं प्रवेशमाले पर्यवस्यति, नामरूपव्याकरणं तु ब्रह्मण एवेति शक्यं वक्तुम्, तत्वाप्रत्ययेन समानक
१. छा. ६-१-२ ॥
24
For Private And Personal Use Only