________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा...]
इन्द्रियाधिकरणम्. वेदान्तदीपे-ज्योतिरायधिष्ठानं तु तदामननात्माणवता शब्दात्।। अग्नयादीनां जीवस्य चेन्द्रियाधिष्ठानं परमात्मायत्तमिति १ "परात्तु तच्छ्रते" इत्युक्तमेव स्मारयति विषयव्याप्तिक्षापनाय। प्राणवता-जीवेन सह ज्योतिरादेः
-अग्नयादेः वागाद्यधिष्ठानम् तदामननात्-परमात्मामननाद्भवति । आमननम्-आभिमुख्येन मननं तत्सङ्कल्पादेव भवतीत्यर्थः; २'योऽनो तिष्ठन् ... योऽग्निमन्तरो यमयति" इत्यादिशन्दात् ॥१३॥
तस्य च नित्यत्वात् ॥ सर्वेषामात्मतयाऽनुप्रविश्य, सर्वनियमनस्य नित्यत्वात् परमात्मनः अवर्जनीयत्वादित्यर्थः, ३ “तत्सृष्ट्वा तदेवानुप्राविशत्" इति श्रुतेः ॥१४॥
इति वेदान्तदीपे ज्योतिरायधिष्ठानाधिकरणम् ॥ ६ ॥ --(श्रीशारीरकमीमांसाभाष्ये इन्द्रियाधिकरणम् ॥७॥)..... त इन्द्रियाणि तद्वयपदेशादन्यत्र श्रेष्ठात्।२।४॥१५॥
किं सर्वे प्राणशन्दनिर्दिष्टा इन्द्रियाणि, उत श्रेष्ठप्राणव्यतिरिक्ताएवेति विशये प्राणशब्दवाच्यत्वात् , करणत्वाच्च सर्व एवेन्द्रियाणि ॥
- (सिद्धान्तः.)----- __इति प्राप्त उच्यते-श्रेष्ठन्यतिरिक्ता एव प्राणा इन्द्रियाणिः कुतः? श्रेष्ठादन्येष्वेव प्राणेषु तद्यपदेशात् । ४"इंन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः" इत्यादिभिर्हि चक्षुरादिषु समनस्केष्वेव इन्द्रियशब्दो व्यपदिश्यते ॥१५॥
भेदश्रुतेर्वैलक्षण्याच्च। २।४॥ १६॥ . ५"एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणिच" इत्यादिष्विन्द्रियेभ्यः प्राणस्य पृथक्षणात्प्राणव्यतिरिक्तानामेवेन्द्रियत्वमवगम्यते । मनसः पृथक्वणेऽपि तस्यान्यनेन्द्रियान्तर्भाव उक्तः ६"मनष्षष्ठानीन्द्रिया
१. शारी. २-३-४० ॥-२. . ५-७-५ ॥-३. ते. आन. ६.२ ॥-४. गी. १३.५॥-५. मु. २-१-३॥-६. गी. १५-७ ॥
For Private And Personal Use Only