________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૨૮૨
श्रीशारीरकमीमांसाभाष्ये
[म. २.
परमात्मनस्सङ्कल्पादेव भवतीत्यर्थः । कुत एतत् : शब्दात्-इन्द्रियाणां साभिमानिदेवतानां जीवात्मनश्च स्वकार्येषु परमपुरुषमननायत्तत्वशास्नात् । यथाऽन्तर्यामिब्रह्मणादिषु १ " योनौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निशरीरं योऽग्निमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः "१"यो वायौ तिष्ठन् " १"य आदित्ये तिष्ठन् " ? “य आत्मनि तिष्ठन् ” १" यक्षुषि तिष्ठन्" इत्यादि । यथा च २" भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चमः" इति । तथा ३ " एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इत्यादि ॥ तस्य च नित्यत्वात् । २ । ४। १४॥
Acharya Shri Kailassagarsuri Gyanmandir
सर्वेषां परमात्माधिष्ठितत्वस्य नित्यत्वात्, स्वरूपानुबन्धित्वेन नियतत्वाच्च तत्सङ्कल्पादेवैषामधिष्ठातृत्वमवर्जनीयम् । ४" तत्सृष्ट्वा तदे वानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्" इत्यादिना परम पुरुषस्य नियन्तृत्वेन सर्वचिदचिद्वस्त्वनुप्रवेशः स्वरूपानुबन्धी श्रूयतेः स्मर्यते च ५" विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" इति ॥ १४ ॥
इति श्रीशारीरकमीमांसाभाष्ये ज्योतिराद्यधिष्ठानाधिकरणम् || ६ ||
वेदान्तसारे - ज्योतिराद्यधिष्ठानं तु तदामननात्माणवता शब्दात् ।। जीवेन सह अनयादेः इन्द्रियाद्यधिष्ठानं परमात्मसङ्कल्पादेव भवति, ६ “योऽग्नौ तिष्ठन् योऽग्निमन्तरो यमयति, इत्यादिशब्दात् ॥ १३ ॥
तस्य च नित्यत्वात् ॥ सर्वस्य तन्नियाम्यत्वनियमात् ॥ १४ ॥ इति वेदान्तसारे ज्योतिराद्यधिष्ठानाधिकरणम् ॥ ६ ॥
१. बु. ५-७-५, ७, ९, २२, १८ ॥ २. तै. आन ८-१॥ - ३. बृ. ५-८-९॥– तै. आन. ६-२, ३ ॥ ५. गी. १०-४२ ॥
४.
For Private And Personal Use Only