________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] ज्योतिराधिष्ठानाधिकरणम् । १८१ वेदान्तसारे-अणुश्च।। “प्राणोऽनूकामति" इत्युत्क्रान्तेः अणुः॥१२॥
इति वेदान्तसारे भेष्ठाणुत्वाधिकरणम् ॥ ५ ॥
वेदान्तदीपे-अणुश्च ॥ किमयं प्राणस्सर्वगतः, उताणुरिति संशयः। सर्वगत इति पूर्वः पक्षः २ "सम एभिस्त्रिभिलौकैस्समः" इत्यादिना प्राणस्यानन्स्यव्यपदेशात् । राद्धान्तस्तु-१“त मुकामन्तं प्राणोऽनूत्क्रामति" इत्युकान्तिवचनादिन्द्रियवत्प्राणश्वाणुः। एवमणुत्वे निश्चिते सति सर्वस्य प्राणाय तस्थितित्वेन वैभववादः । सूत्रमपि व्याख्यातम् ॥ १२ ॥
इति वेदान्तदीपे श्रेष्ठाणुत्वाधिकरणम् ॥ ५ ॥
(श्रीशारीरकमीमांसाभाष्ये ज्योतिराद्यधिष्ठानाधिकरणम्।।)----
ज्योतिरायधिष्ठानं तु तदामननात्प्राणवता
शब्दात् । २।४।१३॥ सश्रेष्ठानां प्राणानां ब्रह्मण उत्पत्तिरियतापरिमाणं चोक्तम् । तेपां प्राणानामग्यादिदेवताधिष्ठितत्वं च पूर्वमेव ३"अभिमानिन्यपदेशस्तु विशेषानुगतिभ्याम्" इत्यनेन सूत्रेण प्रसङ्गादुपपादितम् । जीवस्य च खभोगसाधनानामेषामधिष्ठातृत्वं लोकसिद्धम् , ४"एवमेवैष एतान् प्राणान् गृहीत्वा खे शरीरे यथाकामं परिवर्तते" इत्यादिश्रुतिसिद्धं च । तदिदं जीवस्याग्नचादिदेवतानां च प्राणविषयमधिष्ठानं किं वायत्तम् , उत परमात्मायत्तमिति विशये नैरपेक्ष्यात्स्वायत्तम् ॥
-(सिद्धान्तः.)--- इति प्राप्त उच्यते-ज्योतिरायधिष्ठानमिति। प्राणवता-जीवेन सह ज्योतिरादीनामनयादिदेवतानां प्राणविषयमधिष्ठानम् , तदामननात्तस्य परमात्मनः आमननाद्भवति । आमननम्-माभिमुख्येन मननम्, १. .. ६-४-२ ॥-२.. ३-३-२२॥-३. शारी. २-१-५॥-४. ३. ४.१-१८।।
For Private And Personal Use Only