________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तत्राह—
१७८
वेदान्तसारे
[अ. २.
इत्युक्त्वा वागाद्युत्क्रमणेऽपि शरीरस्येन्द्रियाणां च स्थिति दर्शयित्वा प्राणोत्क्रमणे शरीरेन्द्रियशैथिल्याभिधानात् । अतः प्राणापानन्यानोदानसमानाकारेण पश्चधाऽवस्थितोऽयं प्राणः शरीरेन्द्रियधारणादिना जीवस्योपकरोतीति चक्षुरादिवत्करणत्वम् ॥ १० ॥
नन्वेवं नामभेदात्कार्यभेदाच्च प्राणापानादयस्तत्त्वान्तराणि स्युः ;
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चवृत्तिर्मनोवद्व्यपदिश्यते । २।४।११ ॥
यथा कामादिवृत्तिभेदे तत्कार्यभेदेऽपि न कामादिकं मनसस्तस्वान्तरं १ कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरभृतिहींर्धी भींरित्येतत्सर्वे मन एव" इति वचनात् । एवं १ " प्राणोऽपानो व्यान उदानरसमान इत्येतत्सर्वे प्राण एव" इति वचनात् अपानादयोऽपि प्राणस्यैव वृत्तिविशेषाः ; न तत्त्वान्तरमित्यवगम्यते ॥ ११ ॥
इति श्रीशारीरकमीमांसाभाष्ये वायुक्रियाधिकरणम् ॥ ४ ॥
वेदान्तसारे-न वायुक्रिये पृथगुपदेशात् ॥ पञ्चवृत्तिप्राणः न वायुमात्रम्, तत्क्रिया वा २' एतस्माज्जायते प्राणः खं वायुः" इति पृथगुपदेशात् ॥ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः । वायोः पृथग्भूतोऽयं नाम्न्या दिवत् भूतान्तरम्: वायुरेव देहधारणयोग्याकारमापन्नः चक्षुरादिवत् जीवो. पकरणम्, चक्षुरादिभिस्सहोपदेश तत्तुल्योपकारतन्मुख्यत्वेभ्यः ॥ ९ ॥
अकरणत्वाच्च न दोषस्तथा हि दर्शयति ।। करणम् - क्रिया; न जीवोपकाररूपक्रियारहितत्वे दोषः यतः श्रुतिरेष देहेन्द्रियाद्यशैथिल्य करणं दर्शयति, प्राणोत्क्रमणे देहेन्द्रियादिशैथिल्याभिधानात् ॥ १० ॥
पञ्चवृत्तिर्मनोव्यपदिश्यते ।। प्राण एक एव खवृत्तिभिः पञ्चभिः प्रा
१. बृ. ३-५-३ ॥ -२. मु. २-१-३ ॥
For Private And Personal Use Only