________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७९
पा..]
वायुक्रियाधिकरणम्. णापानादिनामभाग्भवति ; कामादिभिर्यथैकमेव मनः १"कामः सङ्कल्पः" इस्थारभ्य १" एतत्सर्व मन एव" इति ॥ ११ ॥
इति वेदान्तसारे वायुक्रियाधिकरणम् ॥४॥ वेदान्तदीपे-न वायुक्रिये पृथगुपदेशात् ॥ किमयं श्रेष्ठप्राणो वायुमात्रम्, उत तक्रिया, अथ वायुरेव कंचन विशेषमापन्नः-इति संशयः । वायुमात्रमिति प्रथमः पक्षः, २ "यः प्राणस्स वायुः" इतिव्यपदेशात् । वायुमात्रे प्राणप्रसिधभावात्, उच्छासनिश्वासरूपवायुक्रियायां प्राणप्रसिद्धेः, वायोः क्रियाविशेष एव प्राण इति द्वितीयः पक्षः । राद्धान्तस्तु-न वायुमात्रं तक्रिया वा प्राणः अपितु देहधारणयोग्यतादिरूपविशेषमापनो वायुः,३"एतस्माजायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुः” इति वायुप्राणयोः पृथगुत्पत्त्युपदेशात्। क्रियायाश्च पृथगुपदेशो न सम्भवति,तेजःप्रभृतिप्वदर्शनात्। चक्षुरादिकरणैस्सह जीवोपकरणतयोपदेशात् , देहेन्द्रियधारणरूपोपकाराधिक्याश्चक्षुरादिभ्यः प्राधान्यवचनाच न क्रियामात्रम्।स्त्रार्थस्तु-न वायुक्रिये पृथगुपदेशात्-वायुमात्रं तक्रिया वा न प्राणः; पृथगुपदेशात्-३"प्राणः जायते; ३"खं वायुः" इति हि पृथगुत्पत्तिरुपदिश्यते ॥ ८॥
वायोः पृथगुपदिष्टतया तस्मादन्योऽयं प्राणः किमग्नयादिवतान्तरमित्याशङ्कयाह
चक्षुरादिवत्तु तत्सहशिष्टयादिभ्यः ॥ तुशब्दश्शङ्कानिवृत्त्यर्थः । प्राणो नाकाशादिवद्भूतान्तरम् ; अपितु वायुरेवावस्थान्तरमापन्नः चक्षुरादिवत् जीवोपकरणम्। तच उपकरणत्वमुपकरणभूतैरिन्द्रियैः सहशिष्टयादिभ्योऽवगम्यते । शिष्टिः-शासनम् उपदेशः । उपदिश्यते ह्ययं प्राणश्चक्षुरादिभिस्सह प्राणसंवादादिषु । तत्सजातीयत्वे होतदुपपद्यते । प्राणशब्दगृहीतेषु करणेष्वस्य ४"अथ हय एवायं मुख्यःप्राणः" इति विशिष्याभिधानमादिशब्देनोक्तम्।तदपि तत्सजातीयत्वे हि सम्भवति ॥९॥
अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ अकरणत्वात्-करणं किया, अकरणत्वं क्रियारहितत्वम् । अक्रियत्वादस्य प्राणस्य जीवं प्रत्युपकारवि
१. बृ. ३-५-३ ॥-२ ॥-३. मु. २-१-३॥-४. छा. १-२-७॥
For Private And Personal Use Only