________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.]
वायुक्रियाधिकरणम्.
१७७
"
शात् - १" एतस्माज्जायते प्राणो मनस्सर्वेद्रियाणि च । खं वायुः " इति तत एव पृथगुपदेशात् वायुक्रियापि न भवति प्राणः; नहि तेजःप्रभृतीनां क्रिया तैस्सह पृथग्द्रव्यतयोपदिश्यते २ “यः प्राणस्स वायुः इति तु वायुरेवावस्थान्तरमापन्नः प्राणः ; न तेजः प्रभृतिवत्तत्वान्तरमिति ज्ञापनार्थम्। उच्छ्रासनिश्वासादावपि प्राणः स्पन्दत इति क्रियावति द्रव्य एव प्राणशब्दमसिद्धिः ; न क्रियमात्रे ॥ ८॥
किमयं प्राणो वायोर्विकारस्सन्ननिवद्भूतान्तरम्', नेत्याह
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः | २|४|९ ॥
नायं भूतविशेषः अपितु चक्षुरादिवज्जीवोपकरणविशेषः। तच्चोपकरणत्वमुपकरणभूतैरिन्द्रियैस्स हशिष्टयादिभ्योऽवगम्यते । चक्षुरादिभिस्सहायं प्राणश्शिष्यते प्राणसंवादादिषु । तत्सजातीयत्वे हि तैस्सह शासनं युज्यते । प्राणशब्दपरिगृहीतेषु करणेष्वस्य विशिष्याभिधानमादिशन्देन गृह्यते ; ३ " अथ ह य एवायं मुख्यः प्राणः " ४" योऽयं मध्यमः प्राण: " इत्यादिषु विशिष्याभिधानात् ॥ ९ ॥
चक्षुरादिवदस्यापि करणत्वे तद्वदस्यापि जीवं प्रत्युपकारविशेषरूपक्रियया भवितव्यम् ; सा तु न दृश्यते; अतो नायं चक्षुरादिवद्भवितुमईतीति चेत्-तत्राह - अकरणत्वाच्च न दोषस्तथा हि दर्शयति । २|४|१०
अकरणत्वात्- करणं क्रिया, अक्रियत्वात् अस्य प्राणस्य जीवं प्रत्युपकारविशेषरूपक्रियारहितत्वाच्च यो दोष उद्भाव्यते, स नास्ति यत उपकारविशेषरूपां शरीरेन्द्रियधारणादिरूपां क्रियां दर्शयति श्रुतिः५" यस्मिन्नुत्क्रान्ते इदं शरीरं पापिष्ठतरमिव दृश्यते सवः श्रेष्ठः "
१. मु. २-१-३ ॥२॥ - ३. छा. १-२-७॥ ४॥ - ५. छा. ५-१-७ ॥
*23
For Private And Personal Use Only