________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
श्रीशारीरकमीमांसाभाग्ये
[म. २. वेदान्तसारे-अणवश्च ॥ तानि चाणूनि, १ "प्राणमनूकामन्तं सर्वे प्राणा अनूकामन्ति" इति गतिश्रवणात् ॥ ६॥ श्रेष्ठश्च । श्रेष्ठः पञ्चवृत्तिप्राणोऽप्युत्पद्यते।उत्तरचिन्तार्थोऽयमनुषादः॥
इति वेदान्तसारे प्राणाणुत्वाधिकरणम् ॥ ३ ॥
वेदान्तदीपे-अणवश्व।। इन्द्रियाणि किं सर्वगतानि, उताणुपरिमा. णानीति संशयः; सर्वगतानीति पूर्वः पक्षः, १"त एते सर्व एव समास्सर्वेऽनन्ताः" इति प्राणानामानन्त्यश्रवणात् । राद्धान्तस्तु २" प्राणमनूकामन्तं सर्वे प्राणा अनूकामन्ति"इति श्रवणात् परिमितत्वे सति अप्रत्यक्षत्वात् अणवः। आनन्त्यश्रुतिस्तु २ “अथ यो हैताननन्तानुपास्ते" इत्युपासनविधानादुपासनफलबाहुल्यविषवा ॥ ६॥
श्रेष्ठश्च । श्रेष्ठः प्राणश्चोत्पद्यते । नात्र न्यायातिदेशः, अधिकाशकाभावात् । पृथग्योगकरणमुत्तरचिन्तार्थम् । श्रेष्ठः पञ्चवृत्तिः प्राणः । प्राणश्रेष्ठ तु प्राणसंवादे तस्य श्रेष्ठयाभिधानात् ॥ ७॥
इति वेदान्तदीपे प्राणाणुत्वाधिकरणम् ॥ ३ ॥ (श्रीशारीरकमीमांसाभाष्ये वायुक्रियाधिकरणम् ॥४॥.. न वायुक्रिये पृथगुपदेशात् । २।४। ८॥
सोऽयं श्रेष्ठः प्राणः किं महाभूतद्वितीयवायुमात्रम् तस्य वा स्पन्दरूपक्रिया; अथवा वायुरेब कश्चन विशेषमापन्नः-इति विशये वायुरेवेति प्राप्तम्, “ यः प्राणस्स वायुः" इति व्यपदेशात्। यद्वा वायुमाते प्राणत्वप्रसिद्धयभावादुच्छासनिश्श्वासादिवायुक्रियायां प्राणशब्दमसिद्धेथ तक्रियैव
-(सिद्धान्तः)...इति प्राप्ते वायुमात्रम्, नच तक्रियेत्युच्यते; कुतः, पृथगुपदे
१.३.३.५-१३ ॥--२. वृ. ६-४-२ ॥
For Private And Personal Use Only