________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
---(श्रीशारीरकमीमांसाभाष्ये प्राणाणुत्वाभिकरणम्॥३॥..
अणवश्व ।२।४।६॥ १"त एते सर्व एव समाः सर्वेऽनन्ताः" इत्यानन्त्यश्रवणाद्विभुत्वं प्राणानाम्
--(सिद्धान्तः)...इति प्राप्तेऽभिधीयते-२ "प्राणमनूकामन्त सर्वे प्राणा अनूत्कामन्ति" इत्युत्क्रान्त्यादिश्रवणात्परिमितत्वे सिद्धे सत्युत्क्रान्त्यादिषु पार्थस्थरनुपलभ्यमानत्वादणवश्च प्राणाः। आनन्त्यश्रुतिस्तु १“अथ यो हैताननन्तानुपास्ते" इत्युपासनश्रवणादुपास्यप्राणविशेषणभूतकार्यबाहुल्याभिप्राया ॥६॥
श्रेष्ठश्च ।२।४॥७॥ माणसंवादे शरीरस्थितिहेतुत्वेन श्रेष्ठतया निर्णीतो मुख्यप्राण:३"आनीदवातं स्वधया तदेकम् इति महाप्रलयसमये स्वकार्यभूतपाणनसद्भाववणात्, "एतस्माज्जायते"इति जन्मश्रवणस्य जीवजन्मश्रवणवदुपपत्तेर्नोस्पद्यत इत्याशङ्कय प्राक्सृष्टरेकत्वावधारणादिविरोधात्,४"एतस्माज्जायते पाणः" इति पृथिव्यादितुल्योत्पत्तिश्चवणात, उत्पत्तिनिषेधाभावाच, जायत एव श्रेष्ठश्च प्राण इत्युच्यते।३"आनौदवातम्" इति तु न जैवं श्रेष्ठ प्राणमभिप्रेत्योच्यते; अपितु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते। ३"भवातम्"इति तत्रैव श्रवणात्। पूर्वेणैव तुल्यन्यायत्वेऽपि पृथग्योगकरणमुत्तरचिन्तार्थम् ॥ ७॥
इति श्रीशारीरकमीमांसाभाष्ये प्राणाणुत्वाधिकरणम्॥ ३ ।।
१. .. ३-५-२३ ॥-२.. ६-४-२ ॥-३,-४. मु. २-१-३॥
For Private And Personal Use Only