________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[भ. २. हस्तादयस्तु स्थितेऽतो नैवम्॥ हस्तादयोऽपि इन्द्रियाणि, जीवे देहान्तरवस्थिते उपकारकत्वाविशेषात्; अतो न सप्तव, अपित्वेकादश। १" द. शेमे पुरुषे प्राणा आत्मैकादशः" २"इन्द्रियाणि दशैकश्च" इति श्रुतिस्मृतिभ्वाम् । बुद्ध्यादयः मनोवृत्तिभेदाः। सप्तानां गतिश्रवणं विशेषणा तेषां प्राधा. न्यात् ॥५॥
इति वेदान्तसारे सप्तगत्यधिकरणम् ॥ २ ॥
वेदान्तदीपे-सप्त गतेर्विशेषितत्वाच॥ किमिन्द्रियाणि सप्तैव, उतैकादशेति संशयः । सप्तैवेति पूर्वः पक्षः-३ " सप्त प्राणाः प्रभवन्ति " इस्यादिषु सशानामेव जीवेन सह सधारश्रवणात् ४“यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च" इतिसप्तानामेव योगकाले सानानि इति विशेषितत्वाचा श्रोत्रादीनि ज्ञानेन्द्रियणि मनो बुद्धिश्चेति सप्तैव । राधान्तस्तु-श्रोत्रादीनि झानेन्द्रियाणि वागादीनिच कर्मेन्द्रियाणि मन इत्येकादश कथं वाग्धस्तादीनामपि श्रोत्रादिवत्कार्यभेदेन जीवोपकरणत्वाविशेषात् १"दशेमे पुरुषे प्राणा आत्मैकादशः” २" इन्द्रियाणि दशैकंच" इत्यादिश्रुतिस्मृतिभ्यः ; वागादीनां जीवेन सह गमनाभावात्सप्तानामेव प्रयाणकाले गतिश्रवणं , योगकाले विशेषितत्वं च ज्ञानेन्द्रियाणां मनसस्तद्वत्तिरूपबुद्धश्च प्राधान्यात् । सूत्रार्थस्तु -सप्तगतर्विशेषितत्वाच-सप्तानामेव गतिश्रवणात् शानानि पञ्च मनो बुद्धिश्चेति विशेषितत्वाच तानि सप्तैव ॥४॥
हस्तादयस्तु स्थितेऽतो नैवम्।।नैवम्, न सप्तैवेन्द्रियाणीत्यर्थः, श्रीप्रादीनि शानेन्द्रियाणि पञ्च वाग्घस्तादीनि च कर्मेन्द्रियाणि पश्च मनश्चेत्येकादश ; तत्र श्रोत्रादीनि जीवेन सह शरीरान्तरगमनेऽपि गच्छन्ति ; वाग्घस्तादीनि कर्मेन्द्रियाणि तु स्थिते शरीरे तेनैव सहोत्पत्तिविनाशवोगीन्युपकारकाणि ; अतो नैवम्-इत्यन्वयः; एषां जीवोपकारकत्वाविशेषात् , १“दशेमे पुरुषे प्राणा आत्मैकादशः" इत्यादिवचनाचेत्यभिप्रायः ॥५॥
इति वेदान्तदीपे सप्तगत्यधिकरणम् ॥ २ ॥
१.१. ५-९-४ ॥-२. गी. १३.५ ॥-३. मु. २-१.८ ॥–४. का. २-६-१०॥
For Private And Personal Use Only