SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा...] सलगत्यधिकरणम् . १३ जिहाघ्राणदिमनांसि सप्तैवेति गम्यते । यानि त्वितराणि विषयाणां प्राहकत्वेन १“अष्टौ ग्रहाः" २" सप्त वै शीर्षण्याः प्राणाः द्वाववाचौ" इत्यादिषु चतुर्दशपर्यन्तानि प्राणप्रतिपादकवाक्येषु वाक्पाणिपादपायूपस्थाहङ्कारचित्ताख्यानीन्द्रियाणि प्रतीयन्ते, तेषां जीवेन सह गतिश्रवणाभावाजीवस्याल्पाल्पोपकारकत्वमात्रेणौपचारिकः प्राणव्यपदेशः॥४॥ --(सिद्धान्तः).इति प्राप्ते प्रचक्ष्महेहस्तादयस्तु स्थितेऽतो नैवम् । २।४।५॥ न सप्तैवेन्द्रियाणि,अपि त्वेकादश,हस्तादीनामपि शरीरे स्थिते जीवे तस्य भोगोपकरणत्वात्,कार्यभेदाच्च। दृश्यते हि श्रोत्रादीनामिव हस्तादीनामपि कार्यभेद आदानादिः अतस्तेऽपि सन्त्येवाअतो नवम्-अतो हस्ता. दयो न सन्तीत्येवं न मन्तव्यमित्यर्थः । अध्यवसायाभिमानचिन्तावृत्तिभेदान्मन एव बुद्ध्यहङ्कारचित्तशब्दय॑पदिश्यत इत्यकादशेन्द्रियाणि । अतः ३“दशेमे पुरुषे प्राणाः आत्मैकादशः"इति-आत्मशब्देन मनोऽभिधीयते; ४"इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः" ५ "तेजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ।एकादशं मनश्चात्र" इत्यादिश्रुतिस्मृतिसिद्धेन्द्रियसप्रया स्थिता।अधिकसङ्ख्यावादाः मनोवृत्तिभेदाभिप्रायाः न्यूनव्यपदेशास्तु तत्रतत्र विवक्षितगमनादिकार्यविशेषप्रयुक्ताः॥ ५॥ इति श्रीशारीरकमीमांसाभाष्ये सप्तगत्यधिकरणम् ॥ २ ॥ वेदान्तसारे सप्त गतेर्विशेषितत्वाच॥ सप्तैवेन्द्रियाणि६" सप्त प्रा. णाः" ७“यदा पञ्चावतिष्ठन्ते झानानि मनसा सह । बुद्धिश्च" इति सप्तानामेव सहगतेस्लेषामेव योगे विशेषितत्वाश्च ॥४॥ १.. ५-२-९ ॥-२. यजु. ७-३-१०॥--३. यू. ५-९-४ ॥-४.गी. १३-५ ॥~~ ५. नि-पु. १-२-४७॥-६. मु. २-१-८॥-७. कठ. २-६-१०॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy