________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[म. २० वेदान्तदीपे-अंशो नानाव्यपदेशादन्यथाचापि दाशकितवादि. त्वमधीयत एके ।। किं जीवः परमात्मनोऽत्यन्तभिन्नः, उत परमात्मैवाज्ञः, अथ परमात्मैवोपाधिसम्बद्धः, परमात्मांशो वेति संशयः; अस्यन्तभिन्न इति प्रथमः पक्षः,१"पृथगात्मानं प्रेरितारश्च मत्त्वा"२"तयोरन्यः पिप्पलं खाद्वत्त्यनभनन्यो भभिचाकशीति" ३ "अनीशश्चात्मा बध्यते भोक्तृभावात्' ४'सर्वस्य वशी सर्वस्येशानः" इत्यादिभेदश्रुतेः, जीवपरमात्मनोः कर्मपरतन्त्रतातद्विपरीतत्वश्रुतेश्च;अभेदश्रुतयः'नरपतिरेव सर्वलोकः'इतिवदौपचारिफ्यः इति । भेदश्रुतीनामविद्वद्विषयतयावा उपाधिसम्बन्धविषयतयावा अमुख्यवृत्तिसम्भवादभेदश्रुतिमुख्यत्वाय-अज्ञः परमात्मा,उपाधिसम्बद्धो वा जीवः-इति युक्तम्। राद्धान्तस्तु-नानात्वैकत्वव्यपदेशात् परमात्मनस्सत्यसङ्कल्पत्वसर्वशत्वानिरव द्यत्वश्रुतेरशत्वोपाधिसम्बन्धाद्यनुपपत्तेर्जीवशब्दस्य जीवशरीरकपरमात्मवाचि. त्वेन५ "तत्त्वमसि" ६"अयमात्मा ब्रह्म” इति सामानाधिकरण्यस्य मुख्यत्वा ग्छरीरशरीरिणोर्विशेषणविशेष्यभूतयोः स्वरूपस्वभावभेदेन च भेदश्रुतेश्च मु. ख्यत्वाद्विशिष्टवस्त्वेकदेशतया च विशेषणस्य परमात्मांशो जीवः; जीवशरीर. त्वञ्च परमात्मनः ७“यस्याऽत्मा शरीरम्" इत्यादिषु सिद्धम् । सूत्रार्थस्तुअंश:-परमात्मांशा जीवः, नानाव्यपदेशात् - भेदव्यपदेशात्, अन्यथाच अभे. दव्यपदेशाच्च ; उक्तनीत्या उभयमुख्यत्वायेत्यभिप्रायः; दाशकितवादित्वमप्यधी. यत एके ८" ब्रह्म दाशा ब्रह्म दासाः” इत्यादिना दाशकितवादित्वमप्यधी यत एके शाखिनः; सर्वजीवव्यापित्वादभेदोपदेशस्य तत्रात्यादरः प्रतीयत इ. त्यर्थः॥४२॥
मन्त्रवणोत् ।।मन्त्रवर्णाश्चांश एव जीवः,९"पादोऽस्य विश्वा भूतानि" इति पादशब्दोऽशवाची ॥४३॥
अपिस्मर्यते ॥ १०" ममैवांशो जीवलोके जीवभूतस्सनातनः" इति जीवस्य परमात्मांशत्वं स्मर्यते च ॥४४॥ ___एकद्रव्यैकदेशत्वं ाशत्वम् । अतो जीवस्य ब्रह्मैकदेशत्वेन जीवदोषा ब्रह्मणो दोषा एवेत्याशङ्कयाह
प्रकाशादिवत्तु नैवं परः।। तुशब्दश्शङ्कानिवृत्त्यर्थः;प्रकाशवतां मणिधु१. श्वे. १-६॥-२. श्वे, ४-६ ॥-३. श्वे. १-८ ॥-४. १. ६-४-२२ ॥-५. छा. ६-१०-३ ॥-६. बृ. ६-४-५ ॥-७. बु. ५-७-२२ ॥ ८॥-९. पुरुषसूक्तम् ॥ -१..गी, १५-७ ॥
For Private And Personal Use Only