________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३. ]
अंशाधिकरणम्.
१६७
मणिप्रभृतीनां प्रकाशविशिष्टानां विशेषणभूतः प्रकाशः यथांशः, तद्वज्जीवशरीरतया जीवविशिष्टस्य ब्रह्मणोऽशो जीवः ; विशिष्टवस्त्वैकदेशतया विशेषणस्य, विशेषणं विशिष्टस्यांशः: आदिशब्दात् द्रव्यविशेषणतैकस्वभावजातिगुणशरीराणि गृह्यन्तेः विशेषणविशेष्ययोः स्वरूपस्वभावभेदाद्विशेषणभूतो जीवः यत्स्वरूपो यत्स्वभावश्च नैवं परः सर्वशस्सत्यसङ्कल्पो नित्यनिरवद्यश्चेस्वर्थः ॥ ४५ ॥
स्मरन्ति च ।। प्रकाशादित् जीवस्यांशत्वं पराशरादयः स्मरन्ति १ " एकदेशस्थितस्याज्यमा विस्तारिणी यथा । परस्य ब्रह्मणशक्तिस्तथेदमखिलं जगत्" । तथा परं प्रति शरीरत्वं च २' यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य सम्भूतौ तत्सर्वं वै हरेस्तनुः” इति ॥ ४६ ॥
ब्रह्मांशत्वेन च सर्वेषामात्मनां समत्वाद्वेदाध्ययनादौ केषांचिदनुज्ञा, केषांचित्परिहारश्च कथमुपपद्यत इत्यत्राह
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ ब्राह्मणादिशुच्यशुचिदेहसम्बन्धात् अनुशापरिहारौ उपपद्यते, ज्योतिरादिवत् " ज्योतिः अग्निः यथा श्रोत्रियागारादग्निराहियते श्मशानादेस्तु परिहियते यथाचान्नादिः श्रोत्रियादेरनुज्ञायते, अभिशस्तादेश्व परिहियते; तद्वत् ॥ ४७ ॥
असन्ततेश्वाव्यतिकरः ॥ जीवानां प्रतिशरीरं भिन्नत्वादणुत्वेन तत्रतत्रावच्छिनत्वाच्च न भोगव्यतिकरश्च । अशब्रह्मजीववादे चोपहितब्रह्मजीववादे चाज्ञानसम्बन्धिचोपाधिसम्बन्धि च ब्रह्मैवेति भोगव्यवस्था न सिद्ध्यतीत्यभिप्रायः ॥ ४९ ॥
आभासा एव च ॥ अशब्रह्मजीववादे सर्वज्ञस्य ब्रह्मणः अज्ञानकल्पनस्वरूपतिरोधानकल्पनाहेतवः आभासा एव । चकारान्निरवद्यत्वादिश्रुतिविरोधश्व ॥ ४९ ॥
पारमार्थिकोपाधिसम्बन्धिब्रह्मजीववादे अनाद्यदृष्टप्रवाहेणोपधिप्रवाहानादित्वात्तत्सम्बन्धिनि ये दोषाः, न ते ब्रह्मणि प्रसज्यन्त इत्याहअदृष्टानियमात् || अटैस्तत्कृतोपाधिभिश्च ब्रह्मणश्छेदासम्भवासत्कृता दोषा ब्रह्मण्येव सम्भवेयुः ॥ ५० ॥
१. वि.पु, १-२२-५६ ॥ - २. वि. पु. १-२२-३८॥
* ज्योतिषाऽग्नेरन्नस्य च शुच्यशुचिदेशसम्बन्धादनुज्ञापरिहारौ, तद्वत् पा ॥
For Private And Personal Use Only